SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 333 प्राणायाम करोमीत्यनुभवात् प्राणव्यापारविशेषे तस्य कर्तृत्वस्येष्टत्वात्' सुषुप्तिकालीनप्राणव्यापारश्च न जीवकृतिसाध्यः, तस्य क्षित्यादितुल्यत्वात् त्वदभिमतक्षितिकर्तुर्ज्ञानादित्रितयवत्त्वे प्रमाणाभावाच्च / ___ कृतिरपि तदीया किमनादिः कार्य वा ? नाद्यः तदनादित्वे प्रमाणाभावात् / अनुमानस्य निरस्तत्वात जीवकार्यस्यैव कृतिजन्यत्वेन सर्गाद्यकालीनकार्यस्य कृति विनाऽप्युपपत्तेः। अत एव न द्वितीयः अशरीरस्य तदनुपपत्तेश्च / एवं तदिच्छायाश्चिकीर्षात्वे तया संहारकार्य न स्यात अन्येच्छातोऽन्यकार्यायोगात् / न च तव तदिच्छाद्वयमस्ति न चकेच्छाया उभयरूपत्वं विरोधात्। न चादष्टविशेषोपधानादेकस्योभयरूपत्वम् अदृष्ट समवधानव्यतिरेकेण तदिच्छायाः संहारप्रकारकत्वाभावात् / ईश्वरे कृतिनिराकरणम् / ___ अस्तु तहि सिद्धान्ते जन्येश्वरकृतिरिति चेत् न, अन्तःकरणधर्मकृतेस्तदभावेऽयोगात् ब्रह्मणि चान्तःकरणे प्रमाणाभावात् / तस्याशरीरत्वात् तस्मिन्नहमित्यादिशब्दानामौचारिकत्वात् / कृतेः कृतिजन्यत्वाभावेन ब्रह्मणस्तत्कर्तृत्वाभावप्रसङ्गाच्च / कृत्यनुकूलापि कृतिरस्त्विति चेत्, न सर्गाद्यकालीनकृत्यभावेन तन्मूलानामप्यभावप्रसङ्गात् / प्रलये कृतिप्रवाहानुपपत्तः तत्कल्पनायां प्रमाणाभावात् कृतेः स्वसमानाधिकरणकृतिजन्यत्वाभावस्य जीवकृतौ निश्चितत्वाच्च / दिना / जीवस्याबुद्धिपूर्वप्राणव्यापारहेतुकृतिमत्त्वे मानाभावात् न तत्कर्तृत्वमित्याहसषुप्तीत / तटस्थेश्वरज्ञानादो मानाभावात् तत्राव्याप्तिश्चेत्याभप्रत्याह-त्वदभिमतेति / तहि कृतिमत्वमेव कर्तृत्वमित्याशंक्याह-कृतिरपीति / जीवकार्यस्यैवेति / कृतेश्चेष्टाद्वारव जनकत्वाज्जीवकार्यस्यव चेष्टाजन्यत्वादिति भावः। तदनुपपत्तेरिति / जन्यकृत्यनुपपत्तरित्यर्थः / तटस्थेश्वरेच्छायाश्चिकोर्षात्वमप्यनुपपन्नमित्याह-एवमिति / चिकी र्षाया एव प्रलयहेत्वदृष्टोपधानात् संजिहीर्षात्वमित्यत आह-"न चेति / परमते ईश्वरे कृत्यसभवेऽपि सिद्धान्ते इच्छावदविद्यावृत्तिरूपकृतिसंभवात् तद्वत्त्वमेव कर्तृत्वमस्त्वित्यभिप्रेत्य शंकते-अस्तु तीति / कृतेश्चष्टाद्वारेव कार्यजनकत्वात् तस्या अन्तःकरणधर्मनियमात्तद्रहितेश्वरे न कृतिसंभव इत्यभिप्रत्याह - अन्तःकरणेति / अशरीरत्वादिति / स्थूलसूक्ष्मशराररहितत्वादित्यर्थः। औपचारिकत्वादिति / स्वप्नोपलब्धपित्रादिप्रयुक्ताहंशब्दवदिति भावः / ब्रह्मण्यनित्यकृतेः कर्तुरभावादित्यनुपपत्तिमाह-कृतेरित्यादिना / कार्यानुकूलज्ञानवत्त्वस्यैव कर्तृत्वे ईश्वरे इच्छापि न स्यादित्यत आह-कामश्रतीति / ब्रह्मणि कृतेरपि श्रवणात् साऽभ्युपेयेत्याशंक्याह--नामरूपे इति / ज्ञानविषयेति / ऐक्षतेति प्रतिज्ञातज्ञानविषयसमर्पणेन तदेकवाक्यत्वात् तद्विषयेत्यर्थः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy