SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 326 सटीकाद्वैतदीपिकायाम् भिव्यक्तिपरेयं तस्य श्रुतिभिनिगुणत्वनिर्धारणात् / शाखान्तरे मूर्तामूर्तयोरेव सत्त्यच्छब्दश्रवणात्। “तदनु प्रविश्य सच्च त्यच्चाभवदिति भवनस्य प्रवेशसमानकर्तृ. कत्वश्रुतेश्च / प्रवेशश्च सृष्टिसमानकर्तृकः श्रुतः / सदादिभवनस्य सृष्टितत्प्रवेशोत्तरभावित्वात् सृष्टित्वमनुपपन्नमिति चेत् / सत्यं सृष्टस्याहेरिव रज्जोर्न ब्रह्मणः पृथक सत्वमिति भावेन ब्रह्मणः कामितबहुभवनापत्तिं ब्रूते। - यत्तु 'निरुक्तमित्यादिवेयर्थ्यमिति, तन्न / मूर्तामूर्तविशेषभावापत्त्यभिप्रायत्वात् / एवमसद्वा इदमग्र आसीदिति मन्त्रेऽप्युक्तार्थप्रकाशके इदं नामरूपविशेषेण व्याकृतं जगदग्रे प्रागुत्पत्तेः असदव्याकृतनामरूपं ब्रह्मवासीत् / नत्वसदेव ततः सदुत्पत्त्ययोगात कथमसतः सदित्यादिश्रुत्या तस्य निषिद्धत्वाच्च / ततो ब्रह्मणः सत् अभिव्यक्तनामरूपं जगदजायत / किं मातुरिव पुत्रः नेत्याहतद्ब्रह्म स्वयं अन्यानधिष्ठितं स्वस्येव कर्तृत्वात् आत्मानमकुरुत 'मायावीव स्वात्मानमेव व्याघ्रादिस्वरूपेण जायमानप्रपञ्चाकारेणात्मानमकरोदि"ति श्रवणात् ब्रह्मोपादानम् / न च सृष्टेर्मायिकत्वे अकुरुतेत्यनुपपत्तिः लोके मायया सृजति मायाः वाय्वाकाशममूर्तमित्युक्त्वातस्मिन्नेव त्यदितित्यच्छब्दः प्रयुक्तस्ततश्च प्रकृतेऽपि सत्यच्छव्दाभ्यां मूर्तामूर्तयोरेव प्रत्यभिज्ञायमानत्वान्न पराभिहितार्थो युक्त इत्याह-शाखान्तर इति / सच्चत्यच्चेति सत्वादिगुणस्य भवनकर्तृत्वाभिधानं प्रवेशसमानकर्तृकत्वपरश्रुतिविरुद्धं चेत्याह-सच्चेति / प्रवेशोऽपि गुणस्यैवेत्याशंक्य तत्सष्ट्वेति सृष्टिसमानकर्तृकत्व. श्रवणान्मैवमित्याह-प्रवेशश्चेति / तत्सृष्ट्वा तदेवानुप्राविशदिति पूर्ववाक्य एव सृष्टयादेरुक्तत्वात् सच्चेत्यादिवाक्यं न दृश्यसृष्टिपरमिति शंकते-सदादीति / पूर्वं सृष्टयाद्यभिधानमङ्गीकरोति-सत्यमिति / पुनस्तदुक्तिवैयर्थ्यमित्याशंक्य सृष्टस्य जगतः कुलालसृष्टघटादेरिव ताटस्थ्यवारणाय ब्रह्मण एव तदापत्तिप्रतिपादनेन तदुपादानत्वपरमिदं वाक्यमित्यभिप्रेत्याह-सृष्टस्येति / सत्यच्छब्दाभ्यामेव मूर्तामर्तमात्रोत्पत्तेरभिधानान्निरुक्तमित्यादिवैयर्थ्यमित्युक्तमित्यनुवदति-यत्त्विति / गोबलीवर्दन्यायेन पृथगभिधानोपपत्तिरिति परिहरति-तन्नेति / सृष्टिवाक्यार्थसंग्राहकमन्त्रपर्यालोचनयाऽपि ब्रह्म जगदुपादानमित्याह --एवमिति / उक्तार्थप्रकाशके मन्त्र इति श्रवणाद्ब्रह्मोपादानमिति संबन्धः / मन्त्रं व्याकुर्वन्निदमिति पदपरामृष्टमाह-इदं नामरूपेत्यादिना / सृष्टेमिथ्यात्वे स्वयमकुरुतेत्यनुपपन्नं शुक्तिरजतमकुरुतेति प्रयोगाभावादित्यत आह--न च सृष्टेरिति / लोक इत्युपलक्षणं वेदेऽपि मायिकस्वप्नस्या 'थरथान् रथयोगान्पथः सृजत" इति सृज्यत्वश्रवणात् / एतेन शुक्ति: रजतमभवदित्यश्रवणात् सच्चत्यच्चाभवदित्यनुपपन्नमिति--निरस्तम् / मायावी व्याघ्रोऽभवदिति प्रयोगदर्शनादिति भावः। आत्मानं
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy