________________ 320 सटीकाद्वतदीपिकायाम् न च सिद्धान्तानुमानेऽपि घटपटयोजात्यानुपपत्तिर्बाधिका। पटत्वं चोपाधिः // एकद्रव्यगतरूपरसादिवजात्यस्येवकोपादानद्रव्यस्यापि वैजात्ये बाध कामावात् / मृत्तन्त्वादिवजात्यावपि तदुपपत्तेश्च / तन्तुरूपादौ तव मते साध्याव्यापकत्वेनानुपाधित्वाच्च / वर्णितप्रतिकूलतणावच्छिन्नसाध्याव्यापकत्वाच्च / चित्सुखाचार्योक्तानुमाननिरूपणम् आचार्यानुमानमपिमान--घटादिकं सदुपादानकं कार्यत्वात्। शुक्तिरजतवत् / अन्यथा सदनुविद्धं न स्यात् / यत्कार्य नियमेन येनानुविद्धं तत्तदुपादानकं यथा मृदनुविद्धो घटादिरिति दर्शयितु तत्र सदनुविद्ध इति विशेषणम्। सच्चात्मवेत्यास्मौपादानकं जगत् / ब्रह्मणःप्रपञ्चोपादानत्वबाधकानुमाननिरासः यत्तु ब्रह्म न द्रव्योपादानं चत्रवत् चेतनत्वादिति तदप्रयोजकम्, उक्तप्रतिकूलतर्कपराहतञ्च। किं च चेतनत्वं यदि ज्ञानरूपत्वं तदा तव मतेऽसिद्धिः ज्ञानाश्रयत्वस्य मम मते / नापि जातिः। एकव्यक्तौ तदभावात् / न चास्मान् प्रत्येवायं प्रयोग इति ज्ञानरूपत्वमेव चेतनत्वम् / बाधादिकं तुल्यमित्याशंक्याह-न चेति / एकोपादानकत्वेऽपि गुणानां यथा वैजात्यमेवं द्रव्याणामपि तदुपपद्यत इत्याह-एकेति / विजातीयोपादानजन्यत्वस्यापि सत्वात्तदुपपत्तिरित्याह-मृतन्त्वादीति / तर्कविरोधं परिहत्योपाधि निराकरोति-तन्तुरूपादाविति / द्रव्यत्वे सति घटाधुपादानजडातिरिक्तोपादानकत्वं यत्र तत्र पटत्वमिति विवक्षितत्वानोक्तदोष इत्याशंक्याह -वर्णितेति / सत्स्वभावानुविद्धत्वे सति विविधविकारत्वादिति हेतोरप्यनवद्यतां दर्शयितुमाह-आचार्येति / कार्यमात्रस्य हेतुत्वे इतरविशेषणवैयर्थ्यमित्याशंक्य विपक्षे वाधकदर्शनार्थं तदित्याह-अन्यथेति / सदनुविद्धत्वस्य सदुपादानकत्वेन सह व्याप्त्यभावात् कथं तदनुपपत्तिरित्याशंक्य सामान्यतो व्याप्तिमाह-यत्कार्यमिति / यच्चोक्तमस्मन्मतेऽपि सत एवोपादानत्वात् सिद्धसाधनमिति तत्राह- सच्चात्मैवैति / अत्र परोक्तप्रतिपक्षानुमानमनूद्य दूषयति--यत्त्विति / हेतुतयोक्तमपि चेतनत्वं किं ज्ञानत्वं ज्ञानाश्रयत्वं वा आत्मत्वजातिर्वा सर्वथाप्यन्यतरासिद्धिरित्याह--किं चेत्यादिना / परसिद्धेन परो वोधनीय इति न्यायेनात्मनश्चिद्रूपत्ववादिनं प्रति ज्ञानत्वमेव हेतुरित्याशंक्य तस्य दृष्टान्तोऽसंप्रतिपन्न इति दूपयति--न चास्मानिति / न चैत्रचैतन्यस्यौपाधिकब्रह्मभेदवत्त्वाभ्युपगमात् दृष्टान्तत्वमित्यत आह-चैत्रेति / अंतः करणेति / अन्तःकरणसहिततवृत्तेरित्यर्थः।