SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 281 तृतीयः परिच्छेदः क्लुप्तज्ञानकारणाजन्यत्वादित्युक्तम् / अतो न तददृष्टान्तेन ब्रह्मज्ञानविधिरनुमातुं शक्यते / तस्माच्छ्वणादिविधिसामर्थ्यसिद्धालौकिकागोचराप्रतिबद्धसाक्षात्कारं द्रष्टव्य इत्यनद्य तदर्थं श्रवणादिविधीयते न ज्ञानमिति स्वप्रधानमेव ब्रह्म वेदान्तप्रतिपाद्यमिति। ब्रह्मणः जगदुपादानत्वनिरूपणम् / तच्च ब्रह्म जगदुपादानं आत्मन आकाशः संभूत इति पञ्चम्या तस्य प्रकृतित्वप्रतिपादनात् / पटादयो घटोपादानोपादानकाः कार्यत्वात् घटवदित्याद्यनुमानान्मृदुपादानत्ववाधे पटादीनां घटाद्यनुरक्तसदुपादानतासिद्धेश्च / स्यादेतत्, मृदादेस्तावदन्वयव्यतिरेकसिद्धं घटायुपादानत्वं न ततोऽन्यस्य / तत्र मानाभावात् / न चेदमेवानुमानं प्रमाणम्; मृदतिरिक्तघटोपादानस्यानुभवविरुद्धत्वात्, अनुमानस्य गौरवबाधितत्वाच्च / इत्यादि स्मृतिरपि द्रष्टव्या। __यदुक्त ज्ञानस्याविधेयत्वे उपासनाविधिर्न स्यादिति तत्राह-उपासनात्मकेति / द्रष्टव्य इत्यनुवादस्य नैरर्थक्यमुक्तम् निराकुर्वन् प्रकृत सुपसंहरति -तस्मादिति / प्रसाधितमौपनिषदत्वमद्वितीयब्रह्मण एव न तटस्थस्येश्वरस्येत्यभिप्रेत्य तस्य जगदुपादानतामाह-तच्चे ते / प्रकृतित्वेति। जनिकर्तुः प्रकृतिरिति उपादानेऽपादानसंज्ञाविधानादिति भावः / श्रुतौ विप्रतिपन्नं प्रत्यनुमानमाह-पटादय इति / स्वतन्त्रप्रकृतेघंटाधुपादानत्वे धर्मिकल्पनागौरवाद् घटाद्यनुरक्ततयाऽनुभूयमानसद्वस्त्वेव तदुपादानतया सिद्धयतीत्यप्रेत्योक्तम्-घटाद्यनुरक्तेति / एत दाक्षिपति-स्यादेतदिति / किं मृदादेरप्यन्वयादिना घटाधुपादानत्वमुत न, आद्य तत एव घटादिकार्योपपत्तेरतिरिक्तोपादाने न मानमस्तीत्याह-मृदादेरिति / मृदाधुपादानकतया विकार्यत्वोपपत्तेरुक्तानुमानमप्रयोजकत्वान्न मानमित्यभिप्रेत्याह-न चेति / दूषणान्तरमाह-- मृदतिरिक्तति / अन्वयादेरन्यथासिद्धत्वान्मृदादेर्नोपादानतेति द्वितीयमाशंक्य निराकरोतिन 'चेति / मृदाद्यवच्छिन्नसत्ताया जातित्वादुपादानत्वायोग इत्याह--सत्तेति / सत्ताया जातित्वमसंमतमिति मन्वानं प्रत्याह-सत्ता चेति / मृदादेरुपादानावच्छेदकतयाऽन्यथा सिद्धिरित्येतदप्ययुक्तमित्याह-मृदादेरिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy