________________ 273 तृतीयः परिच्छेवः विधिशेषं ब्रह्म वेदार्थः / उपासनाविधिशेषत्वात् / निगुणब्रह्मज्ञानस्यापि विधेयत्वात् द्रष्टव्य इत्यादि विधिश्रवणात् / नचायनुवादः; अलौकिकात्मज्ञानस्थान्यतोऽसिद्धः / न चाध्ययनकालसिद्ध मेवानूद्यत इति वाच्यम्; तदनुवादवैफल्पात् / न च सिद्धानुवादः साधन विधानाय भवति. न वा निषेधायानुवादः / न च ज्ञान विधेयम, अपुरुषतन्त्रत्वात, आत्मवदिति वाच्यम् / तद्यदि पुरुषच्छानधीननिष्पत्तिकत्वम्, तन्न ब्रह्मज्ञानस्य परमपुरुषार्थसाधनतया पुरुषे. च्छाधीनत्वात्। न च दुर्गन्धादिज्ञाने तदभाव इति वाच्यम्, यस्य हि पुरुषेच्छाधीन आत्मलाभः तद्विधेयं विधि नन्येच्छानिष्पाद्यस्य॑व विधेयत्वात् / अन्यथा क्रियाया अप्यविधेयत्वप्रसङ्गत् / नहि सर्वा क्रिया पुरुषेच्छया साध्यते / पन्यवेक्षितमित्यादावीक्षणे विध्यङ्गीकाराच्च / कस्प ब्रह्मज्ञानस्य विधेयतेत्याक्षेपः / ननु शाब्दज्ञानं न विधेयम्; तस्य सांगाध्ययनवता विधि विनापि सिद्धत्वात् / न च निर्णयो विधीयत इति वाच्यम्, तस्यापि निर्णयत्वात् न च तदापातरूपम् स्वप्राधान्यमित्याशङ्ग्य तस्यापि ज्ञानविशेषणत्वमाह-निर्गुणेति / सिद्धान्ते द्रष्टव्य' इत्यनुवादत्वान्न विधिरित्यास्थितं तदूषयति-न चामिति / साङ्गाध्ययनविधिवलादेव निगुणात्मज्ञानं प्राप्तमिहानूद्यत इत्याशङ्क्यानुवादवैयर्सेन दूषयति-न चेति / किमयमनुवादो दध्ना जुहोतीतिवत् साधनविधानाय ? किं वा 'न सुरां पिबेत्' इत्यादिवनिषेधाय ? नाद्यः, सिद्धस्य साधनानपेक्षणात् / न द्वितीयः, अत्र निषेधबोधिनत्रादेरश्रवणादित्यभिप्रेत्याह-न च सिद्धेत्यादिना / ज्ञानस्यापुरुषतन्त्रतया विध्ययोग्यत्वाद् द्रष्टव्य इत्येतन्न विधिपरमित्यत आह--न चेति / अपुरुषतन्त्रत्वादित्यनेन विवक्षितमनूद्य ब्रह्मज्ञानेऽसिद्धया दूषयति-तद्यदीति / पुरुषेच्छां विनापि क्वचित् ज्ञानदर्शनात्, तत्र कथं विधिरित्याशक्येच्छाधीननिष्पत्तिकस्यैव तस्य विधेयत्वाभ्युपगमान्न दोष इत्याह-न च दुर्गन्धेति / तत्सजाताये विध्यसंभवमात्रेण तत्रापि तदपलापेऽतिप्रसङ्गमाह-अन्यथेति / न हि सर्वेति : __ बलवदनिलादिनुद्यमानस्येच्छां विनापि क्रियादर्शनादित्यर्थः / यागसाधनाज्यसंस्काराय तदीक्षणविधानादपि न सर्वज्ञानस्य विध्ययोग्यतेत्याह-पत्नीति / ननु द्रष्टव्य इति शाब्दब्रह्मज्ञानं विधीयते ? उत तत्साक्षात्कारः न तावदाद्य इत्याह-ननु शाब्दमिति / धर्म इव ब्रह्मण्यध्ययनमात्रादापातबोध एव जायते, न च नि यि इत्यत आह-न च तदिति / किं ज्ञानस्यापातत्वं संशयविपर्यासान्यतरत्वं सामान्यविष