________________ 260 सटीकाद्वैतदीपिकायाम् त्वात् / “यन्मनसा न मनुत" इति श्रुतिश्च मनस आत्मसाक्षात्कारे करणत्वं निषेधति / 'मनसा ह्येव पश्यति' इत्यादिश्रुतिश्च चित्तैकाग्रयपरा न तु तत्करणत्वपरा। तृतीयाया हेतुत्वमात्रेऽपपत्तेः / न च 'यन्मनसा न मनुते' इति श्रुतिः, केवलमनोगम्यत्वं निपेधतीति वाच्यम् / येनाहुर्मनोमत मिति वाक्यशेषे मनोमात्रोपादानात् पूर्वमपि तस्यैव ग्रहणात् / यतो वाच' इति श्रुतिस्त्वप्राप्येति विशेषणाच्छक्तिनिषेधे व्यवस्थाप्यते शक्तरेव शब्दस्यार्थप्राप्तित्वात् / लक्षणायाः शक्यसंबन्धरूपत्वात् / तस्मादस्मदभेदार्थविषयाधिषणा हरेः। अपरोक्षाऽक्षजा बुद्धिर्यथा वेदान्तवाक्यजा // इति // सर्वस्यवेदस्य रार्थपरता पूर्वपक्षः निराशन ननु सर्वस्य वेदस्य कार्यपरत्वान्न ब्रह्मणो वेदार्थता; कुतः तस्य तदेकार्थ. तेति / न / वेदान्ता हि सिद्धपरा एव तेभ्यस्तदवगमात्, सत्याविवाक्यात कार्यस्या णामिताभिधानात् तस्य करणत्वं विनाऽनुपपन्नज्ञानाभावाच्चेति भावः / मनस आत्मज्ञानकरणत्वं श्रुत्यन्तरविरुद्धं चेत्याह-यन्मनसेति / मनसोकरणत्वमपि श्रुतिविरुद्धमित्याशङ्क्याह-मनसेति / तृतीयाश्रुत्या करणत्वमेवोच्यत इत्याशक्य श्रुत्यन्तरविरोधेन सा हेतुत्वपरतया नेया, तच्चोपादानत्वेनाप्युपपद्यत इत्यभिप्रेत्याह-तृतीयेति / श्रुत्यन्तरविरोधानिषेधकश्रुतिरेवान्यपराऽस्त्वित्यत आहन चेति / येनाहुर्मनो मतमिति चैतन्यदृश्यतयोक्तमनस एव तद्ग्राहकत्वनिषेधात् मनोमात्रस्य च तदृश्यत्वात् पक्वमनसोऽपि न तद्ग्राहकतेत्याह-येनाहुरिति / ब्रह्मणि शब्दप्रवृत्तेरपि निषिद्धत्वात् कथं शाब्दज्ञानगोचरत्वमित्यत आहयत इति / अप्राप्येति शक्तिनिषेधेन ब्रह्मणि निवृत्त्यभिधानेन वृत्यन्तरेण प्रवृत्तिरनुमता, इतरथा औपनिषदत्वश्रुतिविरोधादिति भावः / वादार्थमुपसंहरति श्लोकेन तस्मादिति / हरेरस्मदभेदविषया वेदान्तवाक्यजा धिषणा बुद्धिरिति योजना। "आम्नायस्य क्रियार्थत्वात्", "विधिना त्वेकवाक्यत्वाद्" "दृष्टो हि तस्यार्थः कर्मावबोधन" मित्यादिना वेदस्य कार्यपरतावगमान्न सिद्धब्रह्मणः शास्त्रप्रमाणकतेति शङ्कते-नन्विति / विधिप्रकरणपठितार्थवादादेरेव विध्येकवाक्यतया तत्र कार्यपरत्वमुक्तम्, न तु वेदान्तानां तेषामुपक्रमादिभिः सिद्धब्रह्मपरत्वस्यैवावधारणादित्य भिप्रेत्य परिहरति