SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 201 . अथ वोपाधिः स्वधर्म प्रतिबिम्ब एवारोपयतीति नियमस्तदर्थः / कर्तृत्वादिबन्धेचान्तःकरणमेवोपाधिन त्वज्ञानमात्रं सुषुप्तौ तस्मिन्सत्यपि कर्तृत्वाद्यदर्शनात् / उपपादितं चैतत्साक्षिविवेके / कर्तृत्वादिकं चान्तःकरणधर्म इति तत्प्रतिबिम्ब एव एव बन्धो न ब्रह्मणि। अन्तःकरणं च प्रतिबिम्बोपाधिरिति दर्पणस्थानीयमपि न जपाकुसुमस्थानीयमेव तत्र प्रमाणाभावात्। बुद्धौ प्रवेशरूपप्रतिबिम्बभावस्यतत्र तत्र श्रूयमाणत्वात् / एवं ब्रह्माकारवत्यभिव्यक्तं तदाश्रयचैतन्यं तन्निवर्तकमिति न चैतन्याश्रयाज्ञानस्य निवृत्त्यनुपपत्तिः। ननु विषयाश्रयं चेदज्ञानं कथं प्रतीयेत। आवृतस्य प्रकाशकत्वानुप अत्रापि दर्पणधर्मस्य मालिन्यादेः प्रतिबिम्बमुख एवारोपवद ज्ञानधर्मस्य जाड्यादेरपि जीव एवारोप इति व्यवस्थोपपत्तिः / नन्वेवं वियदादेरप्यज्ञानोपाधिपरिणामत्वेन तद्धर्मत्वात् प्रतिम्बिनेयत्यापात इति चेत् न। उक्तनियमस्योपाधिसन्निकर्षकालनियततधर्मविषयत्वाद्वियदादेस्त्वतीत्वात् / ननु बिम्बप्रतिबिम्बयोरुभयोरप्यौपाधिकभेदवत्त्वाकथमयं नियम इति चेत् / न, उपाधिर्हि ग्रीवास्थमुखप्रतियोगिकं स्वनिष्ठभेदं प्रतिबिम्बमुख एवारोपयति न तु ग्रीवास्थमुखे। तस्य स्वस्माद् भेदाप्रतीतेः। यस्तु प्रतिबिम्बमुखात्तस्य भेदः प्रतीयते न स पूर्वदर्पणधर्मः सन् तदुपाधिना तत्रारोप्यते दर्पणग्रीवास्थमुखयोर्युगपदेव प्रतिबिम्बभेदेनान्वयात्। तस्मात् बिम्बे प्रतिबिम्बप्रतियोगिको भेदो बिम्बत्ववदुपाधिप्रयुक्त एव न तूपाधिधर्मः। एवमनाथुपाधिनिष्ठोऽपि भेदः प्रतिबिम्ब एवारोप्यते इति दृष्टानुरोधेन कल्पनीयमिति भावः / कथं त_ज्ञानाधर्मस्य कर्तृत्वादिबन्धस्य प्रतिबिम्बनयत्यमित्याशक्य तदुपाध्यन्तरप्रयुक्तमित्याह-कर्तृत्वादीति / एवकारार्थमाह-नत्विति / अज्ञानस्यात्मनि कर्तृत्वाद्यारोपकान्तः करणोपादानत्वात्तत्प्रयोजकत्वमात्रं न तु साक्षात्तदुपाधित्वंसत्यप्यज्ञानेऽन्तःकरणाभावेतददर्शनादित्यर्थः / ननु जलादेश्चलनादिवदज्ञानस्यैव कर्तृत्वादिकं कादाचित्कधर्मः किन्न स्यादिति तटस्थशङ्कानिराकरणायाह-उपपादितमिति / कर्तृत्वादेरहमनुभवविषयधर्मत्वानुभवादन्तःकरणस्यैव तथात्वात्तद्धर्मत्वमेवेत्येतदकात्मवादे निरूपितमित्यर्थः / फलितमाह-कतृत्वादिकमिति / अज्ञाने चित्प्रतिबिम्बात्मकजीवस्यैवान्तः करणे प्रतिबिम्बितत्वात्तदुपाधिकबन्धोऽपि तत्रैव व्यवस्थित इत्यर्थः। / ___ यदुक्तमन्तः करणस्य जपाकुसुमस्थानीयत्वात् प्रतिबिम्बोपाधित्वमेव नेति तद्षयति-अन्तःकरणमिति / अतःकरणस्य प्रतिबिम्बोपाधित्वेऽपि मानं नेत्याशङ्याह-बुद्धाविति / “आत्मानमन्विच्छ गुहां प्रविष्टं" "गुहाहितं गह्वरेष्ठं पुराणम्" / ' सदा जनानां हृदये सन्निविष्टः". कोशांश्च सृष्ट्वा प्रविश्य" इत्येवमादौ परस्य जीवरूपेण वुद्धयादिप्रवेशश्रवणादपरिच्छिन्नस्य तस्य तत्प्रतिबिम्बभावव्यतिरेकेण प्रवेशासंभवाद् बुद्ध्यादेरपि प्रतिबिम्वोपाधित्वमित्यर्थः / यदुक्तं चिन्मात्राश्रिताज्ञानसमानाधिकरणज्ञानासंभवात् तस्य निवृत्त्यनुपप
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy