________________ द्वितीयः परिच्छेदः 193 अज्ञानाश्रयनिरूपणम् तच्चाज्ञानं शुद्धचिन्मात्रनिष्ठम् / तदन्यस्य सर्वस्य कल्पितत्वेन तदाश्रयत्वायोगात् / ब्रह्मविषयमज्ञानमेकाश्रयविषयं तमस्त्वात्, आवरकत्वाच्च, बाह्यतमोवदित्यनुमानात् तस्य ब्रह्माश्रयत्वसिद्धिः / अत्र नवीनः स्यादेतत् / स्वविषयप्रकाशात्मके ब्रह्मस्वरूपचैतन्ये कथं तद्विषयमज्ञानम् / एकस्यकविषयप्रकाशाप्रकाशयोस्तमः प्रकाशवद्विरोधात् / अथ सौरप्रकाशदिवाभीतान्धकारयोरिव सत्यत्वमिथ्यात्वाभ्यां न विरोध इति चेत् न। सौरप्रकाशविरुद्धतत्समसत्ताकतमोऽन्तरस्येव चित्समसत्ताकाज्ञानान्तराभावेन मिथ्याज्ञानस्यैव चतन्यविरुद्धत्वात् / अन्यथा न जानामीति ज्ञप्तिविरुद्धत्वानुभवबाधात् / किं चाहमज्ञ इति धर्मिग्राहकसाक्षिबाधाच्च नाज्ञानस्य चैतन्यमात्राश्रयत्वम् / न चायं भ्रमः दोषाजन्यस्याहमज्ञ इति साविज्ञानस्याभ्रमत्वात् / धर्मिग्राहकविरोधेन बाधकानामेवाऽऽभासत्वात् / एवं शुक्त्यज्ञानस्याहमर्थ एवाश्रयः न तु शुक्त्यवच्छिन्नं चैतन्यम् / अहमिदं न जानामीत्यनुभवात् / किं चाज्ञानं स्वकार्येण भ्रान्तिसंस्कारादिना स्वनिवर्तकेन तत्त्वज्ञानेन च सामानाधिकरण्याय जात्रात्मनिष्ठं, न तु ज्ञानमात्राश्रितम / चैतन्येऽपि ज्ञातृत्वा. -, MIm -- स्वप्रकाशे ब्रह्मणि स्वविषयाज्ञानाभ्युपगमे ब्रह्म स्वयं प्रकाशते, न प्रकाशते चेति स्यात्, तदनुपपन्नम्। एकस्य प्रमातुरेकविषयप्रकाशाप्रकाशयोविरोधेन योगपद्यासंभव इति चोदयति--स्यादेतदिति / नन्वप्रकाशात्मकाज्ञानस्यारोपितत्वादनारोपितप्रकाशेन न विरोधः / नभसि विस्तृतसवितृप्रकाशे सत्यप्युलूकारोपिततमसोऽनुवृत्तिदर्शनादिति शङ्कते--अथेति / किमज्ञानं चित्प्रकाशविरोधि न वा ? / आद्ये सौरप्रकाशसमसत्ताकशावरतमोवच्चित्प्रकाशसमसत्ताकाज्ञानान्तरस्याभावादारोपितमेबाज्ञानं तद्विरोधीति वाच्यम्। तथा च कथं नविरोध इति दूषयति-न सोरेति / द्वितीयेऽनुभवविरोध इत्याह--अन्यथेति / उक्तानुमानस्य तर्कविरोध मुक्त्वा धमिग्राहकप्रमाणविरोधमप्याह-. चेति / अहमज्ञ इत्यनुभवेऽज्ञानस्याहमर्थाश्रितत्वांशे भ्रमत्वान्न ब्रह्माश्रितत्वसाधकानुमानबांध इत्याशक्य भ्रमत्वप्रयोजकदोषजन्यत्वाभावान्नायं भ्रम इत्याह--न चायमिति / अज्ञाने अहमर्थाश्रितत्वस्थानुमानादिबाधितत्वात्तत्प्रत्यक्षं भ्रम इत्यत आह-धमाति / एवं मूलाज्ञानस्याहमर्थाश्रितत्वमुक्त्वाऽवस्थाऽज्ञानानामपि तदाह - एवामात / एवकारल्यावर्त्यमाह-- न विति / यस्याज्ञानं भ्रमस्तस्य भ्रान्तिः सम्यक्त्वमेव वे ते .न्यायादपि भ्रान्त्याद्याश्रयाहमर्थनिष्ठमेवाज्ञानमित्याह-किं चेति.। 25