SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 167 ब्यर्थविशेषणत्वेनाव्याप्यत्वादिति चेत्, उच्यते / ज्ञानं स्वसमानविषयमज्ञानं निवर्तयति। भिन्नविषययोस्तयोनिवर्त्य निवर्तकताया अदृष्टेरिति ब्रह्मज्ञाननिवय॑मज्ञानं तावत् ब्रह्मविषयं वक्तव्यम् / ब्रह्म च नित्यप्रकाशात्मकप्रत्यगभिन्नं भेदे प्रमाणाभावाच्छ त्यादिनिषेधाच्चेत्युक्तम् / न च नित्यप्रकाशमानस्यात्मनोऽप्रकाशविषयत्वं अज्ञानविषयत्वं वास्तवंप्रभवति समानसत्ताकयोविरुद्धयोरेकदा एकत्रा. योगात, तथा च सद्विलक्षणमविद्याविषयत्वं वक्तव्यम् / अविद्या च यदि परमार्थः, तदा तद्विषयत्वं न मिथ्या विषयविषयिणोः सतोः विषयत्वस्य तदयोगात् / तथाचाविद्याया ज्ञाननिवर्त्यत्वसिद्धय एव तन्मृषात्वमपेक्ष्यते। किञ्च ब्रह्मज्ञानं विहितक्रियात्वेन नादृष्टद्वाराऽज्ञानं निवर्त्तयति / लोकेऽदृष्टं विनापि ज्ञानादज्ञाननिवृत्तः / प्रमाणज्ञानस्य ज्ञातुरिच्छातिपातिनोऽविधेय __ हेतोरभावादिाते / अज्ञान नेवृत्त्यैव रजतानिबृत्तेरित्यर्थः। दृष्टान्ते सम्प्रतिपन्नहेतुमपि दूषयति-न च स्वाश्रयेति / व्यर्थेति / तव मते ध्वंसप्रतियोगित्वमात्रस्यासत्यत्वेन व्याप्तेरतन्मात्रस्य चाप्रयोजकत्वादित्यर्थः। “तरति शोकमात्मवित्" "तथा विद्वानामरूपाद्विमुक्तः' इत्यादिश्रुतिभिः बन्धस्यापि ज्ञानकनिवर्त्यत्वावगमान्न तदज्ञानत्वप्रयुक्तमित्यभिप्रत्याह-उच्यत इति / अस्तु तर्हि जडत्वमेव तत्प्रयोजकमित्याशङ्कयाज्ञाननिवर्तकज्ञानेन समानविषयत्वं तावदावश्यकमित्याह-ज्ञानमिति / ब्रह्मणि वास्तवमज्ञानविषयत्वमसंभवीति वक्तु तस्य स्वप्रकाशप्रत्यग्रूपत्वमाह-ब्रह्म चेति / निषेधादिति / नान्योऽतोस्ति इत्यादि श्रुतिभिः अनुमानैश्च भेदस्य निषेधादित्यर्थः। ततः किमित्यत आह-न चेति / अज्ञानविषयत्वमित्यस्य व्याख्या अपकाशविषयत्वमिति / प्रकाशमानत्वं हि प्रकाशप्रयुक्तसंशयाद्यगोचरत्वमज्ञानविषयत्वं चाज्ञानप्रयुक्तसंशयादियोग्यत्वं तयोश्चान्यतरमिथ्यात्वमन्तरेणैकत्र समावेशोऽनुपपन्न इत्यर्थः / तत्र प्रकाशमानत्वस्याविद्यकत्वे ब्रह्मणः स्वप्रकाशत्वायोगाज्जगदान्ध्यप्रसङ्गादप्रकाशमानत्वमेवारोपितमिति वक्तव्यमित्याह-तथा चेति / अविद्याविषयत्वस्य मिथ्यात्वेऽप्यविद्यायाः किमायातमित्यत आहअविद्य'ति / विषयविषयिभावस्य स्वरूपसंबन्धात्मकत्वेन संबन्धिनोरुभयोरपि सत्यत्वे तस्य मिथ्यात्वायोगादविद्याया मिथ्यात्वमावश्यकं तथा च तस्याज्ञाननिवर्त्यत्वे च तदेव प्रयोजकमित्याह-तथा चेति / निवर्तकज्ञानपर्यालोचनयापि निवाज्ञानस्य मिथ्यात्वं वक्तव्यमित्याह-किं चेत्यादिना। अद्वितीयब्रह्मणो जीवाभेदप्रमात्वेनैव ब्रह्मज्ञानं मूलाज्ञाननिवर्तक मिति वक्तुं तस्य प्रकारान्तरेण तन्निवर्तकत्वं निराकरोति-ब्रह्मज्ञानमिति / प्रमाणज्ञाने विधेरप्यसभवान्न तस्यादृष्टद्वारा निवर्तकतेत्याह-प्रमाणेति / विधिजन्यपुरुषच्छाधीननिष्पत्तिकस्यैव विधेयत्वात्, प्रमाणज्ञानस्य च दुर्गन्धादौ तदभावेऽप्युत्पत्तेर्न तद्विधेयमित्यर्थः। किञ्च "यश्चा
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy