________________ .. द्वितीयः परिच्छेदः 163 सुहृद्दर्शनानिवर्त्यत्वात् / सुखं प्रत्येव तस्य हेतुत्वात् / 'अग्निचित्कपिला सत्री' इति स्मृतेश्च न ज्ञानमात्रात्पापनिवृत्तिरर्थः। पश्यतामपि म्लेच्छानां तन्निवृत्त्यभावात, किं तु श्रद्धाद्यङ्गविशिष्टादेव / एतेन ब्रह्मज्ञानमात्रं नाज्ञाननिवर्त्तकम् / अध्ययनश्रवणादिनियमविशिष्टस्यैव तस्य निवर्तकत्वात् / भाषाप्रबन्धादिनाऽनधोतवेदान्तजन्येनासंभावनादिप्रतिबद्धन ज्ञानेन तदनिवृत्तरिति नवीनोक्तं प्रत्युक्तम् / अध्ययनादिनियमस्य ज्ञानोत्पादहेतुत्वेनोत्पन्नज्ञानस्य तदनपेक्षणात् / अन्यथा “ज्ञानादेव तु कैवल्यम्" "नान्यः पन्था' इत्यादिमुक्त्युपायावधारणश्रुति स्मृतेरिति / अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः / दृष्टमात्राः पुनन्त्येते तस्मात्पश्यत नित्यशः / / इति स्मृतेः कपिलादिदर्शनं पापनिवर्त्तकमित्यवगतमित्यर्थः / ज्ञानकनिवर्त्यत्वं निवर्त्यस्यासत्त्वेन नियतम् / ज्ञानैकनिवर्त्यत्वं च ज्ञाननिवातिरिक्तभावविशेषकारणानपेक्षज्ञानजन्यध्वंसप्रतियोगित्वं, स्वाश्रयप्रमाकालनियतध्वंसप्रतियोगित्वं वा / तथा च नासंभवः / न चेच्छादौ व्यभिचार इत्यभिप्रत्याह-नेति / तत्र तावत् सुहृद्दर्शनं दुःखनिवर्तकमेव न भवति उत्पन्नदुःखस्य स्वज्ञाननिवर्त्यत्वादनुत्पन्नस्य केनापि निवर्तयितुमशक्यत्वादित्याह-उत्पन्नेति / सुहृद्दर्शनस्य दुःखाभावेऽवयादिकमपि नेत्याह-सुखमिति / पापस्याप्यग्निचिदादिज्ञानकनिवर्त्यत्वं नोक्तरमृत्यर्थः, किंतु विशेषकारणमपेक्ष्य तन्निवय॑त्वमित्याह--अग्निचिदिति / "तस्मात्पश्येत नित्यशः" इति पापनिवृत्तिकारणत्वेन दर्शनस्य विहितत्वान्' विहितकरणस्याङ्गापेक्षाया आवश्यकत्वात्, विहितस्याज्ञानत्वाच्चेति भावः / मूलाज्ञाननिवृत्तेरपि विशेषकारणाधीनत्वात् ज्ञानकनिवर्त्यत्वमसंभवीति परोक्तचोद्यमपवदति-वेदेति / एतेनेति / / एतच्छब्दार्थमाह-अध्ययनादीति / विविदिषावाक्येनाध्ययनादिनियमानां विविदिषाद्वारा पुरुषार्थपर्यवसानमपि सत्तावधारणात्मकज्ञान एव विनियुक्तत्वाच्छ्वणादीनामपि ज्ञानोद्देशेनैव विहितत्वात्, उत्पन्नज्ञानस्याविद्यानिवृत्तौ न तदतिरिक्तकारणापेक्षेत्यर्थः / तदुक्तम्-- सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते, इति / ननु “मद्भक्तः संगजितः" निर्वैरः सर्वभूतेषु यः स मामेति' इत्यादिवचनाद्भक्तिरपि मोक्षहेतुरिति चेत् न / "प्रियो हि ज्ञानिनोऽत्यर्थम्" इत्यादिनाद्वैतज्ञानस्यैव परमभक्तित्वाभिधानात्तदन्य.भक्तेर्मोक्षहेतुत्वं श्रुत्यादिविरुद्धमित्याह-अन्यथेति / अध्ययनादिनियमस्य मोक्षेऽनुपयोगे हेत्वन्तरमाह-स्त्रीशूद्रयोरिति /