________________ 138 सटीकाद्वैतदीपिकायाम् नस्य प्रतियोगिज्ञानजन्यत्वनियमात / यदवच्छिन्नमज्ञानमनुभूयते स एव हि तस्य विषयः / ज्ञान इवाज्ञानेऽपि निरूपकस्यैव विषयत्वात् / अन्यथाऽतिप्रसङ्गात् / अवच्छेदके च न त्वदभिमताज्ञानमिति ततोऽन्यदेव तत् / न च सामान्यावच्छिन्नं विशेषाज्ञानं भातीति नातिप्रसङ्ग इति वाच्यम् / सामान्यविशेषयोर्भेदेनातिप्रसङ्गापरिहारात, व्यक्तिरूपविशेषस्य ज्ञातत्वाच्च / व्यञ्जकासाधारणधर्मस्तु व्याप्यत्वेन विशेषः तथा च वह्नि न जानामीत्यनुभूयमानाज्ञानस्यापि धूमविषयत्वप्रसङ्गः। किं च त्वदुक्तमर्थं न जानामीति विषयनिरूपितमेवाज्ञानमनुभूयते / तन्निरूपितत्वं च स्वस्यैव स्वप्रतियोगिज्ञानस्य वा / उभयमपि साक्षात्परम्परयो वा तन्निरूपकस्य तस्य तद्विश्रयत्वं वाक्यं ज्ञान इवाज्ञानेऽपि निरूपकस्यैव विलयत्वात् इतरथा घटाक्षाने पटस्थापि विषयत्वप्रसङ्गात् / निरूपकत्वं च ज्ञातस्थैवेत्यज्ञानविषयज्ञानस्य तस्यावश्यकत्वान्न परोक्ताज्ञानसम्भव इत्याह यदवच्छिन्नमिति / ननु सामान्यनिरूपिताज्ञानस्य विशेषो विषयः / तथा च न पूर्वोक्तातिप्रसङ्ग इत्याशक्य तयोरपि तव मते भिन्नत्वादतिप्रसङ्गस्तदवस्थ इत्याह-न चेति / __ भेदेऽपि तयोः सामान्यविशेषभाव एव नियामक इत्याशक्य किं विशेषशब्देन व्यक्तिविवक्षिता उतापरजापिः व्यञ्जकासाधारणधर्मो वा?। नाद्यः सामान्याश्रयत्वेन व्यक्तेरपि ज्ञानत्वादित्याह--व्यक्तीति / न द्वितीयः जातिरहितेषु सामान्यादिष्वज्ञानादेरभावप्रसङ्गादिति चार्थः / तृतीये तस्य तस्य तद्विशेषत्वं तद्वयाप्यत्वप्रयुक्तं वाच्यं अन्यथा तस्य तद्वयञ्जकत्वायोगात् / ततश्च व्यापकनिरू पिताज्ञानस्य व्याप्यो विषय इत्यतिप्रसङ्गमाह-व्यञ्जकेति / यदप्युक्तं विशेषतो न जानामीति विशेषप्रकारकं ज्ञानं निषिध्यते तस्यैव संशयविरोधित्वादिति, तद् दूष्यति--अत एवेति / सर्वदा तज्ज्ञानरहिते तत्प्रागभावासंभवातारकीयतज्ज्ञानाभावस्य पराभिमतेश्वरादावपि सत्त्वाद्विशेषस्योक्तप्रकारेण दुनिरूपत्वाच्चेत्यर्थः / निरस्तसर्वपक्षेषु दूषणान्तरमाह-चन्द्रमिति / चक्षुषा प्रकृष्टप्रकाशव्यक्तिविशेषपश्यतोऽप्यस्मिन् ज्योतिर्मण्डले चन्द्रं न जानामीति तदज्ञानानुभवः सुप्रसिद्धः / तत्र त्वदुक्तनिखिलनिषेधप्रतियोगिनः सत्त्वात्तदभावरूपाज्ञानानुपपत्तिः / न च तत्र चन्द्रं न जानामीत्यनुभवश्चन्द्रपदवाच्यत्वादिविषयो, न चन्द्रत्वादिविषय इति वाच्यम् / चन्द्रत्वं नाम काचिज्जातिः / सा च चन्द्रपदप्रवृत्तिनिमित्ता इत्याप्तोपदेशात्तज्जातिमतः तद्वाच्यत्वं निश्चितवतः प्रकृष्टप्रकाशे चन्द्रत्ववैशिष्ट्याज्ञानाभावे तद्वाच्यत्वेज्यज्ञानानुपपतेरित्यादि चतुर्थे वक्ष्यते इति भावः / साक्षात्त्वदुक्तार्थविषयं प्रमाणज्ञानं नास्तीत्यत्रापि किं तत्प्रागभावोऽज्ञानत्वेनाभिमतः तदत्यन्ताभावो वा ? / नाद्यः / सर्वदा तद्विशेषज्ञानरहिते तदयोगात् / न द्वितीयः / भावितादृशज्ञानाश्रये तदत्यन्ताभावायोगात् पुरुषान्तरीयतदत्यन्ताभावस्यातिप्रसक्तत्वादित्यभिप्रेत्याह--अत एवेति /