SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 107 अज्ञानग्राहकवृत्त्या विषयो न ज्ञायते चेत् तहि ज्ञानाभावग्राहकवृत्त्याऽपि विषयो न ज्ञायताम् / न किञ्चिदवेदिषमिति स्वापकालीनस्य तस्य परामर्शोऽप्येतावन्तं कालं दुःखं नावेदिषमिति परामर्शवत् ज्ञानाभावविषयः सुषुप्तौ धादिज्ञानाभावस्तु तवाप्यनिष्टः / तेन विना भावरूपाज्ञानस्याप्यननुभवात् / सुषुप्तौ सामान्येन विषयज्ञानादज्ञानानुभव इत्येतत् ज्ञानाभावेपि तुल्यम् / सुषुप्तौ केवलमज्ञानमनुभूतमुत्थितेन सविषयं परामृश्यत इत्यप्यभावेऽपि तुल्यम् / अभावस्यापि प्रमेयत्वादिना ज्ञाने प्रतियोगिज्ञानानपेक्षणात् / अथ वा नायं परामर्शः किं तूत्थितस्य ज्ञानाभावानुमितिः अवस्थाविशेषत्वस्येन्द्रियप्रसादेन तदुपरमानुमाने सामग्रयभावस्य प्रातर्गजायभाव इव तुल्ययोग तीभावरूपाज्ञानानुभवस्याप्यज्ञानाविषयत्वात् न तेन तस्य विरोध इत्याह-- तीति / तृतीये न किंचिदवेदिषमित्यस्य परामर्शत्वमभ्युपेत्य तस्य भावरूपाज्ञानविषयत्वाभावात्तन्मूलानुभवो न तत्र मानमित्याह-न किंचिदिति / दुःखं नावेदिषमिति परामविदिति / दुःखविषयभावरूपाज्ञानानभ्युपगमात्तत्परामर्शस्य तद्विषयज्ञानाभावविषयत्वमावश्यक, तद्वदित्यर्थः। ननु सर्वज्ञानोपरमसषप्तौ धर्मिप्रतियोगिज्ञानाभावान्न ज्ञानाभावरूपाज्ञानानुभवः तदभावे च कथं तत्परामर्श इत्याशक्य धाद्यज्ञाने भावरूपाज्ञानस्याप्यनुभवायोगात्तवा ययं दोषस्तुल्य इत्याह--सुषुप्ताविति / ननु भावरूपाज्ञानानुभवस्य साक्षिगो नित्यतया धादिज्ञानानपेक्षणादज्ञानावच्छेदकविषयस्यापि सामान्येन तद्विषयत्त्वात्तदवच्छिन्नाज्ञानानुभवे न काचिदनुपपत्तिरित्याशङ्कय तीभावरूपाज्ञानस्यापि साक्षिवेद्यत्वसंभवात्तत्रापि नानुपपत्तिरित्यभिप्रेत्याह--सुषुप्ताविति / सुषु तावज्ञानमात्रं सातिणानुभूतं पश्चाद्विषयावच्छिन्नं परामृश्यते इत्येतदप्यभावरूपाज्ञाने तुल्यमित्याह--सुषुप्राविति / किं च सप्रतियोगित्त्वेनैवाभावानुभवो धादिज्ञानमपेक्षते न तदनुभवमानं तस्य तेन विनापि दर्शनादित्याह-अभावस्यापीति / ननु सुषुप्तौ तव मते नित्यसाक्षिणोऽभावान्न तन्मूलकोऽयं ज्ञानाभावपरामर्शः अनित्यसाक्ष्युपगमे च सुषुप्तिभङ्गप्रसङ्गः। तस्य धादिज्ञानं विनाऽनुपपत्तिश्च अज्ञानस्य तदा स्वरूपेण वेद्यत्वे ततो विशिष्ट विषयपरामर्शायोगात् / अस्मन्मते नित्यस्यापि साक्षिणोऽसङ्गस्य भावरूपाज्ञानेन विना दृश्येन ज्ञानाभावादिना वास्तवसंबन्धायोगान्मतद्वयेऽपि न ज्ञानाभावरूपाज्ञानानुभवसंभवः / तदसंभवे च कथं तद्विषयपरामर्श इत्याशङ्क्यास्य परामर्शत्वमेवासिद्धमित्याह--अथ वेति / तदनुमितौ लिङ्गत्रयमाह-अवस्थेति / सुप्तोत्थितेन्द्रियेषु प्रसाददर्शनात्तेषां स्वापकाले व्यापाराभावरूप उपरमोऽनुमीयते / इन्द्रियच्यापाराभावाच्च प्रत्यक्षज्ञानसामग्रय
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy