SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः स्वविषयत्वरूपस्वप्रकाशत्वखण्डनम् अत्रोच्यते। घट इति जन्यप्रत्यक्षं नैतज्ज्ञानविषयः, एतजनकसन्निकर्षानाश्रयत्वात् , सम्मतवत्, वैशिष्ट्यमसन्निकृष्टमपि भासत इति मते घटव्यक्ति जन्यप्रत्यक्षं नैतद्विषयः तत एव तद्वत् // असनिकृष्टस्य न विषयत्वम् न चाप्रयोजकः / वैशिष्टयातिरिक्तस्य जन्यप्रत्यक्षविषयत्वे तज्जनकसन्निकर्षाश्रयत्वस्यैव प्रयोजकत्वात् / अन्यथाऽतिप्रसङ्गात् / घटजन्यं ज्ञानं नैतद्विषयः एतदजनकत्वादिति वा। पक्षादन्यत्रैवायं नियम इति सर्वत्र वक्तुं शक्यत्वादित्युक्त्वा ज्ञानान्यविषयत्वे ज्ञानस्य तत्सन्निकर्षजन्यत्वं प्रयोजकं ज्ञाने तु तत्र तावदनुमानस्य प्रतिप्रयोगपराह तिमाह-घट इति / घटविषयशाब्दज्ञानस्यापि पक्षत्वे तज्जनकसन्निकर्षाप्रसिद्धया तत्र हेतोरसिद्धिः स्यात्तन्निवृत्तये प्रत्यक्षपदम् / ईश्वरज्ञाने ऽप्युक्तदोषपरिहाराय जन्यपदम / जन्यप्रत्यक्षमित्युक्ते प्रमेयमिति ज्ञानस्यापि पक्षता स्यात्तथा च तत्र परमते हेतोरसिद्धिः, तज्जनकसन्निकर्षरूपप्रमेयत्वाश्रयत्वात्तनिवृत्तये घट इतीति / नैतज्ज्ञानविषय इति / पक्षीभूतज्ञानविषयो नेत्यर्थः। न च घटादिविषयाद्भेद इष्ट इति वाच्यम। एतज्ज्ञानाविषयत्वस्य साध्यत्वात्सविषयकत्वस्याप्यसम्भवात् / पक्षीभूतज्ञानस्यापि वैशेषिकादिमते ऽनुव्यवसायजनकसन्निकर्षाश्रयत्वादित्य सिद्धिवारणाय हेतावेतत्पदम् / अस्मन्मते च पटादिदृष्टान्तसाधनवैकल्यपरिहारार्थमिति द्रष्टव्यम् / ननु घटे घटत्ववैशिष्टयस्यासन्निकृष्टस्यैव विषयत्वातत्र व्यभिचार इति चेन्न। तस्यापि सन्निकृष्टत्वात् / अन्यथा तत्र तस्य विषयत्वायोगात् / अङ्गीकृत्यापि व्यक्त्त्यंशज्ञानस्यैव पक्षत्वान्न दोष इत्याह-वैशिष्ट्यमिति // ___ यदुक्तमसनिकृष्टस्यापि विषयत्वं साक्षिविषयवदुपपद्यत इति तत्राह-न चाप्रयोजक इति / प्रयोगान्तरमाह-घटजन्यमिति / ननु ज्ञानातिरिक्तस्य जन्यप्रत्यक्ष विषयत्वे तजनकसन्निकर्षाश्रयत्वं प्रयोजक ज्ञानस्य तु स्वाभेद एवेत्युक्तमित्याशङ्कय तदुत्तदोषं तस्मिन् पातयति-पक्षादन्यत्रेति। तहिं जानामीति तस्य ज्ञान विषयत्वानुभव
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy