________________ प्रथमः परिच्छेदः 51 परामर्शस्याहङ्कारविषयत्वं तन्निरामश्च यत्त सुग्वमहमस्वाप्समिति परामर्शोऽहङ्कारविषय इति' तदसत् / सुषुप्तौ कादाचित्काहङ्कारानुभवस्यासम्भवात् / नित्यस्यात्मान्यस्याभावात् विषयस्य चास्वप्रकाशत्वादित्युक्तत्वात् / न चानुभवादृते परामर्शः सम्भवति। सुषुप्तावहङ्कारानुभवे जाग्रतीवाहमित्यनुभूयेताविशेषात् / चिद्रूपात्मात्वावृतत्वादभिव्यञ्जकान्तःकरमाभावाच न तदा विशिष्य प्रकाशते। तस्मादहमिति ज्ञानविषयो न स्वद्रष्टा, तस्मिन्प्रकाशमानेऽप्यप्रकाशमानत्वात्, घटादिवत् / न चासिद्धिः / अहमाकारानुभवस्य सुषुप्तावननुभवपराहतत्वात् / सुखमहमस्वाप्समिति चाहताराश्रय एव विषया. त्माभेदारोपाद्विषयतया प्रतीयते। अहङ्कारांशज्ञानस्मृतित्वे कारणाभावस्य बाधकस्योक्तत्वात् / न चास्याभाससमता। इत्यत्राह-न चेति / 'यच्चास्य सन्ततो भावस्तस्मादात्मेति गीयत' इति वचनात् व्युत्पत्तेश्च परिच्छिन्नस्यात्मशब्दार्थत्वं व्याहतमित्यर्थः। आत्मत्वजारात्मपदार्थत्वान्न विरोध इत्याशक्यासिद्धथा दूषयति-न चात्मत्वमेवेति / गौरवाच्च न जातिरथे इत्याह-नानात्मेति / __ स्वमते परामर्शमुपपाद्य परमते तस्यानुपपत्ति वक्तुमनुवदति-यत्तु सुखमिति / सुषुप्तावहङ्काराननुभवे न तत्परामर्श:स्यात्तदनुभवश्च किं जन्यज्ञानमुत नित्यमथवा स्वप्रकाशरूपोऽहकार एव सर्वथाप्यसम्भव इत्याह-तदसदित्यादिना / सुषुप्तावहङ्कारानुभवोऽनुपलब्धिपराहतश्चेत्याह / सुषुप्ताविति / ननु स्वप्रकाशचिद्रूपात्मनस्तदा सत्त्वात्तन्मते ऽहमेतादृश इत्यनुभवः किं न स्यादिति तत्राहचिद्रूपेति / एवमाचार्यानुमानमपि निरवद्यमित्याह-तस्मादिति / अत्र प्रकाशमानत्वं प्रकाशप्रयुक्तसंशयाद्यगोचरत्वं तदभावोऽप्रकाशमानत्वं सुषुप्तौ चाहङ्कारसंशयायभावो न तत्प्रकाशप्रयुक्तस्तदा तदभावात्तनिरूपितप्रकाशस्याप्यभावात्, किं तु धर्मिज्ञानादिविरहादिति न विशेष्यासिद्धिः। न च ब्रह्मणि व्यभिचारः। स्वव्यवहारहेतुप्रकाशानाश्रयत्वस्य प्रकाशात्मकब्रह्मण्यपि सत्त्वात् /