________________ प्रथमः परिच्छेदः निरुद्धादेरपि विभुद्रव्यस्य तव मते सत्त्वात् / सुखमिति सामानाधिकरण्यानुपपत्तेश्च / भेदाभेदस्य च विरुद्धत्वेनानुपपत्तेः ""स भगवः कस्मिन् प्रतिष्ठित" इत्यादिना ब्रह्मणोऽप्यधिकरणमस्ति न वेत्याशङ्कय "नाहमेवं ब्रवोमीति स होवाचान्यो पन्यस्मिन् प्रतिष्ठित" इति भेदनिषेधेनात्मना प्रतिष्ठितत्वनिषेधात् / अन्यथा विभुत्वादप्रतिष्ठित इत्येव च ब्रूयात् / न च बलवर्मणि राज्यं प्रतिष्ठितमिति नियम्ये प्रतिष्ठितत्वश्रवणाद् ब्रह्मणोऽन्यनियम्यत्वमानं प्रतिषिध्यत इति वाच्यम्, प्रसङ्गाच्चेति भावः। किश्च भेदिमते स एवाधस्तादित्यादिवाक्यपर्यालोचनया विमुमात्रस्य भूमशब्दाथत्वात् तदुद्देशेन सुखत्वविधाने ब्रह्मण एव सुखरूपत्वं त्वदिष्टम् न सिद्धयेदित्याह-भेदे चेति। विवक्षित इति शेषः / तस्मिन् भूमशब्दार्थ विभुमात्र च विवक्षिते सतीत्यर्थः। ननु निरङ्कशैश्वर्य्यस्य भूमपदार्थत्वात् कालानिरुद्धादेश्व तदभावान्नोक्तदोष इत्याशङ्कथ तव मते सुखस्य गुणत्वान्नाभेदाभिधानमुपपद्यत इत्याहसुखमितीति / ननु गुणगुणिनोरभेदस्यापि विद्यमानत्वात् तदुपपत्तिरित्याशङ्क्याहभेदाभेदस्य चेति / भेदविरुद्धस्याभेदस्य तत्सामानाधिकरण्यानुपपत्तिस्तदविरुद्धस्य त्वभेदसंज्ञायाः पारिभाषिकत्वाद् भेदभ्रमनिवर्त्तकप्रमाविषयस्यैवाभेदपदार्थत्वात् तयोश्च नैकत्र सम्भव इति भावः / उत्तरवाक्यपर्यालोचनयाऽपि भेदापवादावगमादद्वैतं ब्रह्मैव भूमशब्दार्थ इत्याह–स भगव इत्यादिना / भगवः, हे भगवन् स भूमा कस्मिन् प्रतिष्ठित इति सनत्कुमारं प्रति नारदप्रश्ने तस्योत्तरम् / ३स्वे महिनिं" इति, यदि तस्य क्वचित्प्रतिष्ठामिच्छसि, तात्मीये माहात्म्ये विभूतौ प्रतिष्टितो भूमा; यदि वा परमार्थमेव पृच्छसि, तर्हि न महिनीति महिन्यपि न प्रतिष्ठित इति ब्रुमः / क्वचिदप्यनाश्रितो भूमेत्यर्थः / 1. छा० 7, 24, 1 / 2. हो वाचेत्युपनिषत्सु पाठः। छा० 7, 24, 2 / 1. छा० 7, 24, 1 / 4. यद्धि• मु० पा० /