________________ 202 सटीकाद्वैतदीपिकायाम् मनसोऽनन्तत्वाणुत्वशङ्कानिरसनपूर्वकसावयवत्वसिद्धिः / ननु बुडिरन्तःकरणं मन इत्यादिशब्दानामेकार्थत्वे मनोऽणु, अनन्तपरिमाणं वा / उभयथापि न अहमिति बुद्धेस्तदवच्छिनात्मा विषयः अणोरिवाण्ववच्छिन्नस्याप्रत्यक्षत्वात् / अनन्तस्येपानन्तावच्छिन्नस्याप्यपरिमितत्वादिति चेत् / न / मनसोऽणत्वेऽनंतत्वे वा "तन्मनोऽकुरुत" "एतस्माजायते प्राणो मन" इत्यादिश्रतेस्तत्कार्यत्वप्रमितिविरोधात् / पञ्चावधानिनां युगपद् गन्धादिविषयानुभवदर्शनाच्च न मनसोऽणुत्वम् / नचानुभवयोगपद्ये मानाभावः। गन्धरूपरसस्पर्शशब्दान् युगपत्प्रत्येमीत्यनुभवात् / न च क्रमानुमानेनानुभवो बाध्यते। अनुमानस्यानुकूलतर्कविरहिणो दुर्बलत्वात्। एवं विभुत्वे व्यासङ्गानुपपत्तिर्वाधिका। न चादृष्टादेव तदुपपत्तिः। दृष्टसंपत्तौ तद्विरहेण कार्यविलम्बायोगात / न चानणत्वेऽपि सा तुल्येति वाच्यम् / वृद्धिहासर्मिणो युगपत् क्रमेण वेन्द्रियसन्निकर्षसंभवेन व्यासङ्गपञ्चज्ञानसंभवात् ऋमिकेन्द्रियसं. प्रयोगे च निमित्तं-मनोणत्वमते इवादृष्टम् / अत एवैवं सति किं मनसा अदृष्टमेवास्त्विति प्रत्युक्तम् / परमतेऽपि तत्पर्यनुयोगस्य तुल्यत्वात्। उक्तोपाधेरपि परिच्छेदावगाहि प्रत्यक्षविषयत्वानुपपत्तिरिति चोदयतिननुबुद्धिरिति / अनन्तपरिमाणं वेति / नित्यस्य मनसो मध्यमपरिमाणायोगादिति भावः / भवेदेतदेवं यदि मनो तित्यं भवेत्, न त्वेतदस्ति श्रुतियुक्तिभ्यां तस्य कार्यत्वेनमध्यमषरिमाणावगमादित्याह-मनस हति / तद्-ब्रह्म, मनोकुरु उत्पाद दयामासेत्यर्थः / अणुत्वे तावद्युक्तिविरोधमप्याह-पञ्चेति / गन्धादिविज्ञानयोगपद्यस्यैवाभावान्न तदनुपपत्तिरित्याशङ्कयानुभव विरोधेन दूषयति-न चेति / विमतानि ज्ञानानि क्रमभावीनि एकनिष्ठानेकज्ञानत्वात् संमतवदित्यनुमानविरोधाद्यौगपद्यानुवो भ्रम इत्यत आह-न च क्रमेति / मनोविभुत्वेऽपि युक्तिबाधमाह-एवमितिः / नन्वस्मिन्पक्षे समनस्केन्द्रियसन्निकर्षे सत्यदृष्टविरहप्रयुक्तज्ञानविरह एव व्यासङ्गइत्यत आह-न चादृष्टेति / अन्त्य तन्तुसंयोगे सति क्वचिदप्यदृष्टाभावात्पटाभावादर्शनादिति भावः / मनसो मध्यमपरिमाणत्वेऽपि तस्य नियतत्वात् ज्ञानयोगपद्यव्यासङ्गान्यतरानुपपत्तिरित्याशङ्कय तत्परिमाणानियतत्वेन समाधत्ते-नचानणु