________________ 185 सटीकाद्वैतदीपिकायाम अहमनुभवस्योभयरूपत्वे प्रमाणातरम् एवं दुःखायाश्रयस्थ परिच्छेदानुभवोऽपि तस्योभयरूपत्वे प्रमाणम् / न च देहपरिमाणमेवात्मन्यारोप्यते / अत एव परिमाणे गृह्यमाण एव द्रव्यग्रहणमिति निरस्तम् / देहपरिमाणेन सहैवाऽऽत्मग्रहणात्। न च परिमाणे प्रमीयमाण एव द्रव्यग्रहणमिति नियमः। अत्युन्नतगिरिशिखरवृक्षादिग्रहणे तदभावात आरोपश्चान्यथाख्यातिरनिर्वाचनीयख्याति:त्यन्यदेतदिति वाच्यम। तद्गतपरिमाणग्राहकस्येन्द्रिस्यैव तद्रव्यग्राहकत्वात् / दूरस्थे वृक्षादावपि तद्गत. परिमाणमात्रस्य ग्रहणात्। विश्वात्मपरिमाणस्यातीन्द्रियत्वनिरूपणम् / दुःखाद्याश्रयस्य परिच्छिन्नपरिमाणातिरिक्त परिमाणमात्रस्याप्यग्रहणात्। तस्य च तव मते देहनिष्ठत्वात् लाघवेन द्रव्य ग्रहणस्य परिमाणविषयकत्वनियमान्न विभ्वात्मनोऽहमनुभवविषयत्वमित्याशक्य किं द्रव्यग्रहस्य परिमाणग्रहणमात्रेनियमः उत प्रमयाऽपि ? / आद्यस्तु प्रकृतेऽपि संभवतीत्याह-अत एवेति / द्वितीयं व्यभिचारेण दूषयति-न चेति / ननु स्फटिके मयाऽनिर्वचनीयलौहित्योत्पत्त्यङ्गीकारादात्मन्यपि तन्न्यायेनानिवचनीय. परिमाणान्तरमेव स्यात् / तच्च तवानिष्टमित्यत आह-आरोपश्चेति / उभयथापि अहमर्थस्य द्विरूपत्वायोगादिति भावः / द्रव्यस्य स्वगतपरिमाणग्रहणयोग्येनैवेन्द्रियेण ग्रहणनियमादात्मपरिमाणस्य च मतद्वयेऽपोन्द्रियायोग्यत्वान्न केवलात्मनोऽहमनुभवगोचरता। कुतस्तत्र देहपरिमाणारोप इत्यभिप्रेत्याह-तद्गतेति / कथं तर्हि दूरस्थवृक्षगतपरिमाणाग्रहेऽपि तद्ग्रह इत्याशङक्येन्द्रिययोग्यं तत्परिमाणमेवान्यथा गृह्मत इत्याह-दूरस्थेति / विभ्वात्मपरिमाणं तु केनाप्यग्रहादिन्द्रिययोग्यमेव नेत्याह--दुःखादीति / ननु बहिरिन्द्रियग्राह्यस्यैव द्रव्यस्यायं नियम इत्याशङ्क्याह--लाघवेनेति / परिमाणपदेन तद्गतपरिमाणं विवक्षितम् / पराभिमतात्मन्यहमनुभवायोगात् परिच्छन्नमेवान्तःकरणं साक्षितादात्म्यापन्नमहमनुभवविषय इत्याह-तस्मा दिति / पराभिमतात्मन इन्द्रियग्रहणयोग्यत्वेऽपि तत्र प्रतीयमानपरिच्छिन्नपरिमाणं नारोपितं