SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छे : 183 जनकत्वं प्रयोजकम् / सुखजनकत्वं तूभयत्रानुगतप्रयोजकम् / सामान्ये सामान्यस्य विशेषे विशेषस्य च प्रयोजकताया न्याय्यत्वात् / न च लाघवादात्मनः सुखत्वमेव परमप्रेमगोचरत्वे प्रयोजकं सुखशेषत्वं च पुत्रादेरौपाधिकप्रेमगोचरत्वे इति वाच्यम्। अहं सुखीत्यवाधितानुभवेनात्मनोऽसुखत्वात् / तथापि दुःखाश्रयत्वाविरोधाच। जन्ययोरेव सुखदुःखयोविरोधाऽनुभवात् / अन्यथोपाधिकेऽप्यात्मनि सुखरूपत्वानपायात् दुखानुपपत्तेः। केवलबुद्धे रेव दुःखादिमित्वनिरासः। / न च दुःखादिकं केवलान्तःकरणधर्म एव प्रतीयते इति वाच्यम् / चैतन्यसामानाधिकरण्यानुभवात् / दुःखादेरन्तःकरणमात्रधर्मत्वे च भौतिकाश्रयतया रूपादिवत् साधारण्यप्रसङ्गाच / न च द्वित्वादिवदसाधारण्यमविरुष्डम् / तस्यापि साधारणत्वात् / नियतचेतनधर्मोपग्रहेण तस्यासाधारणत्वाच / हेतुमाह-अहमिति / अहमर्थस्य सुखत्वेनैव परमप्रेमगोचरत्वमङ्गीकृत्यापि तस्य द्वैरूप्यं न सिद्धयतीत्याह-तथापीति / ननु सुखदुःखयोराधाराधेयभावो विरुद्ध इत्याशङ्कयाह-जन्ययोरिति / नित्यसुखस्य दुःखविरोधे शबलितेऽपि तस्मिन् दुःखं न स्यादित्याह-अन्यथेति / / केवलबुद्धेरेव दुःखादिमित्वमिति सांख्यमतं निराकरोति-न च दुःखादिकमिति / "अन्नमयं हि सोम्य मन" इति श्रुतेर्मनसो भौतिकत्वेन तन्मात्रधर्मत्वे सर्वपुरुषसाधारण्यं स्यादित्याह-दुःखादेरिति / भौतिकधर्मत्वेऽपि द्वित्वादिवदसाधारण्यमित्याशङ्कय दृष्टन्तासंप्रतिपत्त्या दूषयति-न चेति / द्वित्वादेरपेक्षाबुद्धिव्यंङयत्वाद्यावद्रव्यभावित्वेन साधारण्यमिति भावः। द्वित्वादेरपेक्षाबुद्धिजन्यत्वमतेऽपि नियतचेतनधर्मभूतज्ञानजन्यत्वमसाधारणण्ये प्रयोजकम् / दुःखादौ च न तदस्ति / सांख्यमते चेतनस्य निर्द्धर्मकत्वादित्यभिप्रेत्याह-नियतेति / नन्वहमर्थे प्रत्यक्षशास्त्राभ्यां परिच्छेदापरिच्छेदयोविरुद्धधर्मयोरवगमाद्धर्मभेद आवश्यक
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy