________________ प्रथमः परिच्छेदः 167 च रूपान्तरेणासन आत्मन: स्वरूपेणासत्त्वायोगात् / पट. रूपेणासतो घटस्य स्वरूपेण सत्वेन व्यभिचाराच्च / न च घटादेः सत्त्वेन प्रमितत्वात् किश्चित्कालमसतो न सर्वकालासत्त्वनियम इति वाच्यम् / घटादिसबुद्धरधिष्ठानविषयतयाऽन्यथासिद्धत्वात् / सत्तान्तरकल्पने गौरवात्। किञ्च कारणे समवायः किमसत उत्पत्तिः, स्वस्मिन् सत्तासमवायो वा ? आयेऽपि स्वोपलक्षितसमवायः स्वविशिष्टसमवायो वा ? / नाद्यः / तस्य नित्यसमवायवादिनः सर्वदा सत्त्वेन ज्ञानादौ मनआदेरकारणत्वप्रसङ्गात् / बुद्धयाद्यनित्यत्ववादिनोऽनित्यसमवाये च न मानमस्ति / नापि द्वितीयः। असतो विशेषणत्वायोगात्। नापि स्वस्मिन् सत्तासमवाय उत्पत्तिः / असति स्वस्मिन् तदनुपपत्तेः / कार्यसत्त्वस्योत्पत्तिप्रयोज्यत्वात / न च कार्यस्याद्यसम मित्याशङ्कयाह-न च घटादेरिति / ननु प्रतीत्यनुसारेण घट एव स्वाभाविकसत्ता किं न स्यादित्याशङ्कयाह-सत्त्वान्तरेति / न हि "सन्घट" इत्यत्र सत्त्वस्य घटधर्मत्वं प्रतीयते किं तु "मृद्घट" इतिवत् सत्तादात्म्यमानं तच्च तद्रूपेणोभयवादिसम्मतात्मतादात्म्यमेवेति सत्तान्तरकल्पने गौरवं स्यादिति भावः / उत्पत्तिशब्दाथपर्यालोचनयाप्यसदुत्पत्तिरयुक्तेत्यभिप्रेत्य विकल्पयति-किञ्चेति / किं समवायो नित्य एकः, उतानित्योऽनेकः ? / आये कार्योपलक्षितसमवायस्य तत्प्रागभावकालेऽपि सत्त्वात् त्वदभिमतकार्यकारणभावो न स्यादित्यभिप्रेत्याह-तस्य नित्येति / द्वितीये समवायसाधकानुमानस्य स्वरूपसम्बन्धेनार्थान्तरत्वान्नानन्तसमवायः प्रामाणिक इत्याह-बुद्धयादीति / कारणे कार्यविशिष्टः समवाय उत्पत्तिरिति पक्षं दूपयतिनापीति / असतो विशेष्यसम्बन्धाभावेन विशेषणत्वायोगादित्यर्थः / आये द्वितीयं दृषयति-नापीति / किमसति स्वस्मिन् सत्तासमवायः उत्पत्तिः उत, सति ? आद्य दूषयतिअसतीति / द्वितीये परस्पराश्रयः स्यादित्यभिप्रेत्याह-कार्यसत्त्वस्येति / पराभिमतलक्षणान्तरं दूषयति-नचेति / किं कार्यस्याद्यसमयेन सम्बन्धः संयोगः समवायो वा