________________ 157 प्रथमः परिच्छेदः लिङ्ग, न तु स्वरूपं, न वा विशेषणम्। सर्वदाऽर्थप्रकाशत्वस्यैव ज्ञानस्वरूपत्वे तटस्थेश्वरज्ञाने नित्ये सर्वार्थप्रकाशो न स्यात् / तस्य कार्यविरहकाले तदप्रकाशत्वात् / न च घटादिविरहकालेऽपि तस्य तद्गोचरत्वात्तत्प्रकाशत्वमस्तीति वाच्यम् / ज्ञानं हि स्वसंबद्धमेव विषयीकरोति नासम्बद्धम् / ननु स्वरूपसम्बन्धोऽ. स्तीति चेन्न / तत्काले सतोरेव हि स्वरूपसम्बन्धः, न सदसतोः निःस्वरूपत्वात् / अतीतादिश्च तव मते निःस्वरूप एव / अन्यथा प्रागभावप्रध्वंसाभ्यां प्रतियोगिन एककालत्वप्रसङ्गात् / प्राग. भावादिकाले तत्सत्तानङ्गीकारे चासत्त्वं नाम निःस्वरूपत्वमेव स्यात् / नन्वभावकाले प्रतियोगी नासन् किन्तु कालान्तरे सन्निति चेन्न कालान्तरसत्त्वे ऽप्यभावकाले तदसत्त्वात् // अभावकाले प्रतियोगिनोऽस्त्वप्रतिपादनम् / तदाप्यभाव एव, न तु प्रतियोगिनोऽसत्वमिति चेन्न / असत्वनिषेधे सत्त्वापत्तः। तस्य चाभावकालेऽयोगात् / एतेन कालविशेषे प्रतियोगिनो ऽभावप्रतियोगित्वमेव न त्वसत्त्वमिति मतीतादिपदार्थाभावेन तद्विषयत्वासंभवादित्याह-सर्वदेति / अतीतादिकमपि तद्विषय एवेत्याशङ्कय संबन्धाभावेन दूषयति-न च घटादीति / संबन्धाभावोऽसिद्ध इति शङ्कते-नन्विति / स्वरूपस्य संबन्धिद्वयात्मत्वात्संबन्धिनोऽभावकाले संबंधोऽपि नास्तीत्याह-न तत्काल इति / प्रागभावादिकाले प्रतियोगिनः सत्त्वेऽसत्कार्यवादहानिः स्थादित्यभिप्रेत्याऽऽह-अन्यथेति / तत्परिपालनाय तदसत्त्वाङ्गीकारे स्वरूपसंबंधहानिरित्याह--प्रागभावादी ति / अभावकालेऽसत्त्वनिषेधेन कालांतरे सत्त्वस्य विवक्षितत्वान्नासत्कार्यवादभंग इति शङ्कते--नन्वभावकाल इति / विवक्षाया अन्यथात्वेऽपि तदा तदसत्त्वमावश्यकमित्याह-न कालान्तरेति // काशकुशावलम्बन्यायेन शङ्कते-तदापीति / त्वया सदसद्विलक्षणानङ्गीकारादसत्त्वनिषेधे सत्त्वमेव स्यादित्याहन असत्त्वेति / असत्त्वनिषेधे सत्त्वस्याऽऽवश्यकत्वादेवान्योऽपि प्रलापो निरस्त इत्याह--एतेनेति / किञ्चाभावप्रतियोगित्वं हि तद्विरहात्मप्रतियोगिस्वरूपमेव, तस्य चाभावकालीनत्वं विरुद्धमिति द्रष्टव्यम् / ननु विद्यमानप्रतियोगिकोऽभावः स्वकाले प्रतियोगिसत्त्वाविरोधी दृष्टः / एवम विद्यमानप्रतियोगिकाभावोऽपीति