SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 153 रोपासंभवात् / तस्यानियतत्वाच / तथा च स्वप्मानुभूतगजादौ संशयविरोधित्वापरोक्षत्वलक्षणस्पष्टत्वाय विषयगतस्मरणमेव शरणम / स्मर्यमाणदेशे स्मृत्युपनीतगजादेरारोपे स्वप्नस्यानुमितपरमाएवारोपितस्थौल्यवत्पारोक्ष्यप्रसङ्गाच। तथा चानुभवविरोधः। स्मर्यमाणे सन्निहितत्वारोपानानुभवविरोध इति चेन्न / सन्निहितत्वारोपे हि 'सन्निहितो गज' इतिप्रतीतिर्भवति / 'स्थूल: परमाणुः' इतिवत्, अन्धादेः शुक्लः सन्निहित इतिवच्च, नतु स्मयंमाणस्यापरोक्षत्वम् , तस्य विषयावच्छिन्नस्फुरणं विनाऽनुपपत्तः। विषयावच्छिन्नस्फुरणं च तत्र नित्यसर्वगतानुभवानगीकारे न युज्यत इति नित्य सर्वगतानुभवसिद्धिः। एवम् “अहमस्वाप्सम्" इति सौषुप्तिकात्मपरामर्शादपि नित्यानुभवसिद्धिः / परामर्शहेत्वनुभवस्य सुषुप्तावन्यस्यासंभवात् परामर्शत्वं चास्य परिशेषादिति वक्ष्यते। - अन्धादिज्ञाने प्रामाण्यारोपादर्शनात् तत्तुल्यत्वे तदारोपोऽपि न स्यादि. त्याह-न विषयेति / भ्रान्तिज्ञानमात्रे प्रामाण्यारोपस्य जाग्रत्यदर्शनात्स्वप्नेऽपि स न स्यादित्याह--तस्येति / ज्ञानलक्षणप्रत्यासत्तश्च निरसिष्यमाणत्वात्तस्य मानसत्वायोगाच्च तदपरोक्षतायै नित्यस्फुरणमेषितव्यमित्यभिप्रेत्याऽऽह-तथा चेति / स्मृतेर्मनःप्रत्यासत्तित्वेऽपि तदपरोक्षता न स्यादित्याह-स्मर्यमाणेति / इष्टापत्तिमाशयाऽऽह-तथा चेति / वस्तुतो व्यवहितेऽप्यव्यवहितत्वं भ्रांत्या प्रतीयत इति शङ्कते- स्मर्यमाण इति / तथाप्यपरोक्षो गजादिरित्येतादृशानुभवानुपपत्तिः / न चापरोक्षत्वमपि तत्राऽऽरोपितमिति वाच्यम् / स्वप्नज्ञानस्वरूप इव तदापरोक्ष्येऽपि बाधाभावात् / तथा च जाप्रतीव संविदभेदेनैवापरोक्ष्यं स्वप्नगजादेरावश्यकम्। अनित्यसंविदोऽसंभवात्तन्नित्यत्व सिद्धिरित्यभिप्रेत्याऽऽह-न सन्निहितत्वारोपे होति / स्वप्नवदेव सुषुप्तावप्यनुभवस्याऽऽवश्यकत्वात्तदा जन्यस्यासंभवानित्यानुभवसिद्धिरित्याह-एवमहमिति / ननु सुखमहमस्वाप्समिति स्वापकालीनदुःखाभावानुमितिरियं, न सुषुप्तिकालीनसुखादिपरामर्शः, येन सुषुप्तावप्यनुभवो भवेदित्यत आह-परामर्शत्वं चेति / वक्ष्यत इति / आनंदवादे इत्यर्थः।
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy