SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 151 स्वप्ने यत्र देशे गजादिरनुभूयते तस्य तत्र तदा न तत्संशय इति सर्वसंप्रतिपन्नम् / न चैतद्देशविशेषस्य गजादश्च स्मर्ग माणत्वे सङ्गच्छते / स्मर्यमाणोभयप्रतियोगिकसंसर्गानुभवस्य तत्सत्तानिश्चयरूपत्वाभावात् / अन्यथाऽम्धादेरपि शब्दादवगत्य धर्मिप्रतियोगिनौ मनसा पुरोदेशे गजादिकमनुभवतस्तदा तत्र गजादिसंशयानुदयप्रसङ्गात् / कारणप्रकारविषयकृतविशेषस्य स्वप्नान्धानुभवयोरविशेषात् // स्मृतेः संशयविरोधित्वशङ्कापरिहारः। ननु स्मृतेरपि संशयविरोधित्वं दृश्यत इति चेत् सत्यम् / अर्थसत्तानिश्चयरूपानुभवमूला सा। न च स्वप्ने संसर्गप्रत्ययः तथा। स्वप्नेऽनुभवात् कथं स्मर्यमाणारोप इति चेन्न / आकाशादेः पृथक पृथगनुभूतत्वात् स्मर्यमाण आकाशादौ मर्यमाणगमनादिसंसर्गारोपोपपत्तिरित्याह पूर्ववादी-न वाऽननुभूतस्येति / तर्हि जाग्रत्यपि विशिष्टानुभव. स्योक्तप्रकारेणाऽऽरोपितविषयत्वस्य वक्तुं शक्यत्वात् , द्वैतमिथ्यात्वापात इत्याशयाऽऽह-न चैबमिति / ननु बाधाभावचक्षुराद्यन्वयव्यतिरेकादिविशिष्टज्ञानानामप्येवंविधत्वान्नारोपितत्व विरोधितेति चेन्न / तथात्वे प्रेक्षावतः निःशङ्कप्रवृत्त्याद्यनुपपत्तरित्यभिमानः। स्वाप्नज्ञानस्य स्मर्यमाणे स्मर्यमाणारोपरूपत्वे स्वविषयसंशयविरोधित्वं न स्यात् / सामान्यतः सब्दावगतेषु पश्चात्स्मर्यमाणेषु देवगन्धर्वादिध्वस्मदादिवद्भोजनमेहनाद्यारोपेऽपि तत्संशयदर्शनादिति दूषयति-न येन हीति / सत्तानिश्चयरूपत्वे बाधकमाह-अन्यथेति / धर्मिप्रतियोगिनाविति / पुरोदेशगजादावित्यर्थः / नन्वन्धानुभवात् स्वप्नानुभवे विशेषोऽस्तोति चेत् / सत्यम् / अन्धस्य पुरोदेशे वृत्तिनिर्गमनाभावात् प्रमातृव्यवहिते गजाद्यारोपः परोक्ष एव / स्वप्नगजादेः स्वप्रप्रकाशसाक्षिण्यध्यस्तत्वात्संविदभेदेनापरोक्षत्वमस्तीति मम मते विशेषः। तव मते तु कारणकृतवैजात्यं वा विषयकृतंवैजात्यं वा ज्ञाने विशेषो वाच्यः / तदुभयमपि नास्तीत्याह-कारणेति / प्रकारो विशेषणम् // ननु विषयापरोक्ष्याभावेऽपि संशयविरोधित्वदर्शनात् स्वप्नज्ञानस्यापि त्वदभिमतापरोक्ष्याभावेऽपि संशयविरोधित्वं किं न स्यादिति शङ्कते-नन्विति / स्मृतेः संशय विरोधित्वमङ्गीकरोति-सत्यमिति / तहि स्वप्नज्ञानमपि तथाऽस्त्वित्याशङ्कय संशयविरोधित्वे सत्तानिश्चयत्वं प्रयोजकं तच्च स्मृतेस्तादृश
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy