SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सटीकाद्वैतदीपिकायाम् तदयोगाच्च / अस्मिन्मते यद्यपि वृत्तेरेव विनाशः सा च न ज्ञानं तथापि ज्ञानपदार्थोपाधितया तत्सन्निकर्षात् ज्ञानमुत्पन्नं विनष्टमिति वृतिरेवानुभूयते / यथा गुरुमते श्याम नष्टं रक्तमुत्पन्नमिति तत्समवायः, भट्टमते च ककारो नष्टो गकार उत्पन्न इति तयञ्जकध्वनिः नैयायिकादिमते ऽपि गवि शशशृङ्गं नास्तीति शशीयत्वमनुभूयते / न च गुरुमते रूपस्य भट्टमते वर्णस्य नित्यत्वात् न्यायादिमते शशशृङ्गस्याभावाप्रतियोगित्वात्तदनुभवानामन्थात्वमिति वाच्यम् / प्रकृतेऽप्यनुभवस्य श्रुत्यनुमानाभ्यां नित्यत्वसिद्धेस्तुल्यत्वात् / वृत्तेरज्ञानत्वे ऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाभ्युपगमाच / अन्यथा गवि शशशृङ्गं विषय इत्याह-अस्मिन्मत इति / अन्याकारनाशानुभवस्यान्यविषयत्वे पराभ्युपेतं दृष्टान्तमाह-यथा गुरुमत इत्यादिना / गुरुमते श्यामत्वादेर्नित्यत्वेन श्यामं नष्टमित्यनुभवस्य यथाऽनित्यसमवाय एव तन्निरूपितो विषयः, यथा वा भट्टमते वणोनां नित्य त्वेन तन्नाशाद्यनुभवस्य तद्व्यञ्ज कध्वनिरेव तन्नाशादिप्रतियोगितया विषयः, यथा वा वैशेषिकादिमते शशशृङ्गस्यासत्त्वेनाभावाप्रतियोगित्वात् शशशृङ्गं नास्तीत्यनुभवे शशीयत्वमेवाभावप्रतियोगितयाऽनुभूयते,तथा ज्ञानं नष्टमित्याद्यनुभवेऽपि ज्ञानशब्दार्थोपाधिवृत्तिरेव नाशादिप्रतियोगितयाऽनुभूयत इत्यर्थः। उदाहृतानुभवेषु यथाप्रतीतेस्त्तन्मते बाधकसत्त्वादन्यविषयत्वमित्याशङ्कयेहापि तर्हि ज्ञाननित्यतायाः प्रमाणसिद्धत्वान्नाशाद्यनुभवस्यान्यविषयत्वं तुल्यमित्याह-न च गुरु मत इत्यादिना / किञ्च सिद्धान्ते व्यधिकरणधर्मावच्छिन्नप्रतियोगिकाभावाङ्गीकारा वृत्तरज्ञानत्वेऽपि व्यधिकरणज्ञानत्वावच्छिन्नतत्प्रतियोगिकनाशाद्यनभव उपपद्यत इत्याह-वृत्तेरज्ञानत्वे ऽपीति / अभ्युपगमाच्च न ज्ञानं नष्टमित्यनुभवानुपपत्तिरित्युत्तरेणान्वयः / व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावानङ्गीकारे बाधकमाह-अन्यथेति / ननु प्रतियोगिनि प्रतियोगितावच्छेदकविशिष्टज्ञानस्याभावधीकारणस्यात्राभावान्नैतादृश ऽनुभवः सम्भवीति चेत् / प्रतियोगिप्रतियोगितावच्छेदकज्ञानमात्रस्याभावधीकारणत्वात्तद्विशिष्टज्ञानत्वेन तस्य कारणत्वे गौरवात् / न चैवं प्रतियोगिनिर्विकल्पकादप्यभावधीः स्यादिति वाच्यम् / धर्मधर्मिमात्रगोचरनिर्विकल्पके मानाभावादिति भावः। तद्युत्पत्त्यनुभवः कथमित्याशङ्क्य सो ऽपि व्यधिकरणधर्मावच्छिन्नप्रतियोगिकोत्पत्तिविषय इत्याहएवमिति //
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy