SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः वृत्तिनिवर्त्यत्वेपि चैतन्यनिवर्त्यत्वेन प्रकाशनिवय॑त्वानपायात् / प्रकाशमात्रजन्यत्वस्य प्रतियोगिजन्याविद्यानिवृत्तावसम्भवात् / अपि च न प्रकाशत्वेन ज्ञानमज्ञाननिवर्तकं, न वा वृत्तित्वेन वृत्तिः / परोक्षवृत्तौ तदभिव्यक्तप्रकाशे च भावरूपाज्ञाननिवृत्त्यदर्शनात् / किं त्वपरोक्षप्रमाणज्ञानत्वेन / तच्च वृत्युपसर्जनचैतन्यस्य चैतन्यवृत्त्योर्वाऽविद्यानिवर्तकत्त्वेऽविशिष्टम् / __एतेन न जानामीति ज्ञानविरोधित्वमज्ञानस्यानुभूयते न वृत्तिविरोधित्वं, ज्ञानं च स्वरूपमेवेति प्रत्युक्तम् / वृत्तिशबलं चैतन्यं वृत्युपहितं वा ज्ञानपदार्थ इति सिद्धान्तये ऽप्यविद्यानिवृत्ती वृत्तेरपेक्षितत्वात् / नर्थस्य विरोधित्वस्य तत्सम्बन्धिपदार्थप्रतियोगित्वनियमात् // किञ्च तरति शोकमात्मवित्रज्ञानेन तु तदज्ञानं येषां नाशितमात्मन इत्यादिश्रुतिस्मृतिष्वात्मविषयज्ञानादेवाविद्यानिवृत्तिश्रवणात्स्वरूपज्ञानस्य स्वविषयत्वाभावात्तदतिरिक्तवृत्तिरभ्युपेयेति भावः। चैतन्यस्याप्यविद्यानिवर्तकत्वाङ्गीकारात्पूर्वोक्तचोद्यं निरस्तमित्याह-एतेनेति / किमविद्यायाः प्रकाशनिवत्य॑त्वमात्रमभिप्रेतमुतप्रकाशमात्रनिवर्त्यत्वम् आये न विरोध इत्याह--अविद्याया इति / अविद्यानिवृत्तावविद्याया अपि कारणत्वात द्वितीयमसम्भवीत्याह / प्रकाशमात्रेति / नन्वविद्यानिवतिःप्रतियोग्यतिरिक्ताप्रकाशजन्या न भवति तमो. निवृत्तित्वादन्धकारनिवृत्तिवदित्याशङ्कयान्धकारस्यापि मन्दप्रकाशेन सहानुवृत्ति दर्शनात् प्रौढप्रकाशेनैव तन्निवृत्तिवक्तव्या। तथा चैतन्यप्रकाशस्यापि परोक्षस्थले ऽविद्यया सहैवावस्थानादपरोक्षवृत्त्यभिव्यक्तप्रकाशस्यैव तन्निवर्तकत्वमित्याह-- अपि चेति / न वा वृत्तित्वेनेति दृष्टान्तार्थमुक्तम् / नन्वेवं सत्यज्ञानस्य न जानामीति ज्ञानसामान्य विरोधित्वानुभव विरोध इति चेन्न / यथा वस्तुतः शस्त्रादिसम्पन्नसुरविनाश्या अपि दैतेया असुरा इति सुरसामान्यविरोधितया प्रतीयन्ते एवमज्ञानमिति ज्ञानसामान्यविरोधितया प्रतीयमानस्यापि वस्तुतो वृत्तिविशेषाभिव्यक्तचैतन्येनैव निवृत्तिरिति भावः / वक्ष्यमाणयुक्तितोऽपि वृत्तिनिवर्त्यत्वपक्षोक्तदूषणमयुक्तमित्याह-एतेनेति / न जानामीति हि ज्ञानपदवाच्येनाज्ञानस्य विरोधः प्रतीयते / तद्वाच्यं च वृतिविशिष्टं वृत्त्युपहितं वा चैतन्यमित्युभयथापि वृत्ति::
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy