________________ बन्धनात् पुत्रादेर्बाह्यबन्धनाच्च स्वतो विमुक्तोऽपरान्नपि मोचयति। नवश्रोतोभिरनवरतं स्रवद्भिः प्रकटीभवन्तं देहस्याशुचिभावं पश्यत्यसौ। न वान्तस्य पुनरभिलाषं कुर्यात्। नापि ज्ञानादिप्रातिकूल्यं विदधीत। किंकर्त्तव्याकुलो हि भोगाभिलाषी। बहुमायी चासौ। ततश्चाश्नुते दुःखम्। पुनः कुरुते लोभम्। असत्प्रवृत्त्या वर्द्धयति वैरम्। प्रवर्त्ततेऽजरामरवत् क्रियासु। दधाति महतीं भोगाभिलाषाम्। ततश्च क्रन्दतेऽसौ। एवमेनमार्तं सम्प्रेक्ष्य