________________ पूर्वं यौवनावस्थायामिन्द्रियवशगेन तत्तदकार्यानुष्ठानपरायणेनाऽऽनुकूल्यमनुष्ठितम्, परोऽप्यकार्यादौ प्रवर्तमानो मया प्रवृत्तिं कारितः। तथा कुर्वन्तमन्यमनुज्ञातवान्। एवमेव वर्तमानापेक्षयानागतकालापेक्षया च। सर्वेऽप्येते कर्मसमारम्भा ज्ञातव्याः प्रत्याख्यातव्याश्च। अन्यथा दुनिर्वार उक्तोऽनुसञ्चारश्चतुरशीतियोनिलक्षबम्भ्रमणं दुःख-संयोगभागित्वं च। अतः सावधयोगेषु भगवता परिज्ञोदिता।