SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ सर्वत्र द्वादश मुहर्ता / तदा च पूर्वपश्चिमविदेहभरतैरावतेषु चतुर्षु स्थानेषु 2 मुहर्तत्रिकं यावद्दिवसो युगपत्प्राप्यते, परं पूर्वपश्चिमविदेहक्षेत्रयोः सन्ध्याकालिकं 0 मुहूर्त्तत्रिकं भरतैरावतक्षेत्रेषु प्राभातिकम् , यदा च भरतैरावते सायन्तनं तदा च पूर्वपश्चिमविदेहेषु प्राभातिकमित्येवमभ्यूह्यम् / कर्कसङ्क्रान्त्याद्यदिनव्यतिरिक्तशेषेषु दिनेषु प्रतिमण्डलं किञ्चित्र्यूनचतुष्पलैरुदयास्तमयाभ्यां हानिवृद्धी ज्ञेये / / 62 / / अथ सर्वत्राष्टादशमुहूर्ता रात्रिः कथं स्यात् ? इत्याह जंबुद्दीवे मयरे, रयणीइ मुहुत्ततिगि अइक्कंते / उदयइ तहेव सूरो, मुहत्ततिगसेसि अत्थमए ||63 / / जंबु० / जम्बूद्वीपे सर्वाभ्यन्तरात्क्रमेण दिने हीयमाने सूर्यो यदा सर्वबाह्ये मंडले गच्छति तदा पूर्वविदेहेषु मकराद्यदिने रात्रेमुहृतत्रिकेऽतिक्रान्ने सूर्यो भरते उदयमेति , तथैव मुहूर्तत्रिके च शेषे सत्येवास्तमेति / तथा भरते रात्रेर्मुहूर्त्तत्रिके गते सति पश्चिमविदेहक्षेत्रे सूर्योदयः, अवशिष्टे रात्रेर्मुहूर्तत्रिके सूर्यस्यास्तमयनं स्यात् / एवमैरवते पूर्वविदेहेष्वपि भाव्यम् / रात्रि: सर्वत्राष्टादशमुहर्ता : यदुक्तं भगवत्यां पञ्चमशतकप्रथमोद्देशके- जया णं भंते ! जंबुद्दीवे दीवे दाहिणड्ढे उक्कोसए अहारसमुहुत्ते दिवसे भवइ तया णं उत्तरड्डे वि उक्कोसए अट्ठारसमुहुत्ते दिवसे ?' , जया णं दाहिणड्ढे उत्तरड्ढे उक्कोसए अहारसमुहुत्ते दिवसे भवइ तया णं जबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चच्छिमे णं जहन्निया दुवालसमुहुत्ता राई भवइ / , जया णं पुरच्छिमपच्चच्छिमे णं अट्ठारसमुहुत्ते दिवसे तया णं दाहिणड्ढे उत्तरड्ढे वि दुवालसमुहत्ता राई भवइ ?, हंता गोआमा ! / '' एवमष्टादशमुहूर्तरावेरप्यालापको ज्ञेयः / ततो भरतैरावतविदेहरयादिषु सर्वत्र द्वादशमुहूर्त दिनम् , द्वादश चतुर्गुणिता अष्टचत्वारिंशद्भवन्ति / मण्डलेषु भ्रमिकाल: सूर्याणां मुहूर्ताः षष्टिरेव , तेन द्वादशमुहूर्ता रात्रावेव सम्मताः इति सिद्धं सर्वत्र दिनरात्रिमानं तुल्यम् / यदा द्वादशमुहर्त दिनं तदा बाह्यमाण्डलेषु गतत्वेन सूर्ययो: करप्रसरहानेस्तावत्कालमदर्शनात्तथाजगत्स्वाभाव्यादिति / / 63 / / अथ शेषमनुष्यलोके दिनरात्रिप्रमाणमाह
SR No.032805
Book TitlePadarth Prakash 25 Mandal Prakaranam
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2016
Total Pages210
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy