________________ 144 मुक्तेः स्वरूपम् अथ तैः सिद्धैर्भगवद्भिर्यत्प्राप्तम्, तत्सारमाह - यदाराध्यं च यत्साध्यं, यद् ध्येयं यच्च दुर्लभम् / चिदानन्दमयं तत्तैः, सम्प्राप्तं परमं पदम् // 134 // व्याख्या - 'तैः' सिद्धैर्भगवद्भिस्तत्परमं पदं प्राप्तम्, तत्किम् ? 'यदाराध्यं' आराधकैर्यत्पदं समाराध्यते, तथा 'यत्साध्यं' साधकैः पुरुषैः सम्यग्ज्ञानदर्शनचारित्रादिभिः कृत्वा यत्साध्यते, तथा 'यद्धयेयं' ध्यायकैर्योगिभिर्यत्सदैव नानाविधध्यानोपायैायते, तथा 'यच्च दुर्लभं' यत्पदमभव्यानां सर्वथा दुर्लभम्, भव्यानामपि केषाञ्चिदप्राप्तसामग्रीविशेषाणां सर्वथा दुर्लभम्, दूरभव्यानां तु कष्टलभ्यमित्येवं यद् दुर्लभं तदपि तैर्धन्यैर्भगवद्भिः सिद्धैर्लब्धमिति, कथम्भूतं तत्परमं पदम् ?'चिदानन्दमयं' चिद्रूपपरमानन्दमयमिति // 134 / / अथ मुक्तेः स्वरूपं बृहद्वृत्तेनाह - नात्यन्ताभावरूपा न च जडिममयी व्योमवद् व्यापिनी नो, न व्यावृत्तिं दधाना विषयसुखघना नेष्यते सर्वविद्भिः / सद्रूपात्मप्रसादाद् दृगवगमगुणौघेन संसारसारा, निःसीमाऽत्यक्षसौख्योदयवसतिरनि:पातिनी मुक्तिरुक्ता // 135 // ___ व्याख्या - मुक्तिः कैश्चिदत्यन्ताभावरूपा मन्यते, अन्यैर्जडिममयी = ज्ञानाभावमयी मन्यते, अपरैर्दोमवद्व्यापिनी मन्यते, एकैावृत्तिं = पुनरावृत्तिं 'दधाना' मन्यते, अपरैः क्लिष्टकर्मभिर्विषयसुखघना = विषयसुखमयी मुक्तिरुच्यते, सर्वविद्भिस्तु = श्रीसर्वज्ञैरभावरूपा जडिममयी व्योमवद्व्यापिनी व्यावृत्तिरूपा विषयसुखमयी वा मुक्तिर्नेष्यते, किन्तु ‘सद्रूपात्मप्रसादात्' विद्यमानचिद्रूपात्मप्रसत्तितो 'दृगवगमगुणौघेन' सम्यग्दर्शनज्ञानगुणसमूहेन कृत्वाऽसारभूतसंसारात्