________________ 137 उपान्त्यसमये द्विसप्ततिकर्मप्रकृतीः क्षपयति तथाऽगुरुलघुत्वाख्य-मुपघातोऽन्यघातिता / निर्माणमपर्याप्तत्व-मुच्छ्वासश्चायशस्तथा // 114 // विहायोगतियुग्मं च, शुभस्थैर्यद्वयं पृथक् / गतिर्दिव्याऽऽनुपूर्वी च, प्रत्येकं च स्वरद्वयम् // 115 // वेद्यमेकतरं चेति, कर्मप्रकृतयः खलु / द्वासप्ततिरिमा मुक्ति-पुरीद्वारार्गलोपमाः॥११६॥॥पञ्चभिः कुलकम् // व्याख्या - देहपञ्चकं 5 बन्धनपञ्चकं 10 सङ्घातनपञ्चकं 15 'अङ्गोपाङ्गत्रयं' 18 संस्थानषट्कं 24 वर्णपञ्चकं 29 रसपञ्चकं 34 संहननषट्कं 40 'स्पर्शाष्टकं' 48 गन्धद्वयं 50 नीचैर्गोत्रं 51 अनादेयं 52 दुर्भगत्वं 53 अगुरुलघुत्वं 54 उपघातत्वं 55 पराघातत्वं 56 निर्माणत्वं 57 अपर्याप्तत्वं' 58 उच्चासत्वं 59 अयशस्त्वं 60 विहायोगतिद्वयं 62 शुभाशुभद्वयं 64 स्थैर्यास्थैर्यद्वयं 66 देवगतिः 67 देवानुपूर्वी 68 प्रत्येकनाम 69 सुस्वरदुःस्वरद्वयं 71 ‘एकतरं वेद्यं' 72 'चेति' द्वासप्ततिकर्मप्रकृतयो मुक्तिपुरीद्वारार्गलारूपा उपान्त्ये समये क्षपयति // 112-113-114-115-116 / / अथायोग्यन्त्ये समये याः प्रकृतीः क्षपयित्वा यत्करोति, तत् श्लोकत्रयेणाऽऽह - अन्त्ये ह्येकतरं वेद्य-मादेयत्वं च पूर्णता / त्रसत्वं बादरत्वं च, मनुष्यायुश्च सद्यशः // 117 // नृगतिश्चानुपूर्वी च, सौभाग्यं चोच्चगोत्रता / पञ्चाक्षत्वं तथा तीर्थ-कृन्नामेति त्रयोदश // 118 // क्षयं कृत्वा स लोकान्तं, तत्रैव समये व्रजेत् / लब्धसिद्धत्वपर्यायः, परमेष्ठी सनातनः ॥११९॥॥त्रिभिर्विशेषकम् //