________________ 116 आद्यशुक्लध्यानजनितशुद्धिः अथाद्यशुक्लध्यानजनितां शुद्धिमाह - इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् / प्राप्नोत्यतः परां शुद्धि, सिद्धिश्रीसौख्यवर्णिकाम् // 65 // व्याख्या - ‘इति त्रयात्मकं' = पृथक्त्ववितर्कसविचारात्मकं 'प्रथम' शुक्लध्यानं कथितम्, तस्माद्ध्यानात् 'परां' प्रकृष्टां 'शुद्धि' 'प्राप्नोति', कथम्भूताम् ? 'सिद्धिश्रीसौख्यवर्णिकां' मुक्तिलक्ष्मीसुखनिदर्शनिकामासादयतीत्यर्थः // 65 / / अर्थतस्यैव विशेषस्वरूपमाह - यद्यपि प्रतिपात्येत-दुक्तं ध्यानं प्रजायते / तथाप्यतिविशुद्धत्वा-दूर्ध्वस्थानं समीहते // 66 // व्याख्या - 'यद्यप्येतदुक्तं ध्यानं' 'प्रतिपाति' पतनशीलं 'प्रजायते' समुत्पद्यते, 'तथापि' 'अतिविशुद्धत्वाद्' अतिनैर्मल्यतः 'ऊर्ध्वस्थानम्' अग्रेतनं गुणस्थानं 'समीहते' तदारोहाय धावतीत्यर्थः / ___ तथाऽपूर्वकरणगुणस्थानस्थो जीवो निद्राद्विकदेवद्विकपञ्चेन्द्रियत्वप्रशस्तविहायोगतित्रसनवकवैक्रियाहारकतैजसकार्मणवैक्रियोपाङ्गआहारकोपाङ्गाऽऽद्यसंस्थाननिर्माणतीर्थकृत्त्ववर्णचतुष्कागुरुलघूपघातपराघातोच्छासरूपद्वात्रिंशत्प्रकृतिव्यवच्छेदात् षड्विशतिबन्धकः, अन्त्यसंहननत्रिकसम्यक्त्वोदयव्यवच्छेदात् द्वासप्ततेर्वेदयिता, अष्टत्रिंशदधिकशतसत्ताको भवति // 66 // // इति क्षपकस्याष्टमम् // अथ क्षपकोऽनिवृत्तिगुणस्थानमारोहन् याः प्रकृतीयंत्र यथा क्षिपति, तत्र तास्तथा श्लोकपञ्चकेनाऽऽह -