SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दुष्प्राप्यवस्तुन एव मनोरथाः क्रियन्ते प्रत्याहारमनोहरं मुकुलयन् कल्लोललोलं मनः / त्वां चण्डांशुमरीचिमण्डलरुचिं साक्षादिवाऽऽलोकयन्, सम्पद्येय कदा चिदात्मकपरानन्दोर्मिसंवर्मितः // 1 // " ( ) तथा परसमयेऽपि भर्तृहरिः - "गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य, ब्रह्मज्ञानाभ्यसनविधिना योगनिद्रां गतस्य / किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः, सम्प्राप्स्यन्ते जठरहरिणाः शृङ्गकण्डूविनोदम् // 1 // वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः, स्मरन्तः संसारे विगुणपरिणामावधिगतिम् / कदा पुण्येऽरण्ये परिणतशरच्चन्द्रकिरणां, त्रियामां नेष्यामो गुरुगदिततत्त्वैकशरणाः // 2 // " ( ) तदेवं स्वसमयपरसमयप्रसिद्धैः पूर्वपुरुषैः परमात्मतत्त्वसंवित्तिमनोरथा एव कृताः, मनोरथाश्च लोके दुष्प्राप्यवस्तुन एव क्रियन्ते, न तु सुप्राप्यस्य, न खलु कोऽपि सदैव मिष्टान्नाहारं भुञ्जन् मिष्टान्नाहारमनोरथान् कुरुते, न च कश्चित्प्राज्यं साम्राज्यमनुभवन्नपि कदाऽहं राजा भविष्यामीति चिन्तयति, तस्मात्सर्वप्रकारेण प्रमत्तान्तगुणस्थानस्थैविवेकिभिः परमसंवेगारूडैः प्राप्तप्रौढाप्रमत्तगुणस्थानस्य वशतोऽपि शुद्धपरमात्मतत्त्वसंवित्तिमनोरथाः कार्याः, न तु षट्कर्मषडावश्यकादिव्यवहारक्रियाकर्मपरिहारः कार्यः, यतः - “योगिनः समतामेतां, प्राप्य कल्पलतामिव / सदाचारमयीमस्यां, वृत्तिमातन्वतां बहिः // 1 //
SR No.032801
Book TitlePadarth Prakash 26 Gunsthankramaroh
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages234
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy