SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 88 षष्ठं प्रमत्तसंयतगुणस्थानकम् अथातः परं सप्तगुणस्थानानां समानामेव स्थितिमाह - अतः परं प्रमत्तादि-गुणस्थानकसप्तके। अन्तर्मुहूर्तमेकैकं, प्रत्येकं गदिता स्थितिः // 26 // व्याख्या - 'अतः परं' देशविरतिगुणस्थानादनन्तरं प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिकरणबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहाख्यसप्तगुणस्थानानां 'प्रत्येकमेकैकमन्तर्मुहूर्त' गुरुस्थितिर्गदिता = प्रोक्तेति // 26 // अथ प्रमत्तसंयतगुणस्थानकस्वरूपमाह - कषायाणां चतुर्थानां, व्रती तीव्रोदये सति / भवेत्प्रमादयुक्तत्वा-त्प्रमत्तस्थानगो मुनिः // 27 // व्याख्या - 'मुनिः' सर्वविरतः साधुः ‘प्रमत्तस्थानगो भवेत्' प्रमत्ताख्यगुणस्थानकस्थो भवति, कथम्भूतो मुनिः ? 'व्रती' व्रतान्यहिंसादीनि महाव्रतानि विद्यन्ते यस्यासौ व्रती, कस्मात्प्रमत्तः ? 'प्रमादयुक्तत्वात्' तत्र प्रमादाः पञ्च, यदाह - "मज्जं विसय कसाया, निद्दा विगहा य पंचमी भणिया / एए पंच पमाया, जीवं 'पाडंति संसारे // 1 // " (रत्नसञ्चयः 325, संबोधसत्तरि 73, आराहणापडागा 688) [छाया - मद्यं विषयाः कषायाः, निद्रा विकथा च पञ्चमी भणिता / एते पञ्च प्रमादाः, जीवं पातयन्ति संसारे // 1 // ] इत्येतैः प्रमादैर्युक्तत्वात्, क्व सति ? 'चतुर्थानां कषायाणां' 1. रत्नसञ्चये तु 'पाडेइ' इति पाठः, सम्बोधसत्तरिग्रन्थे तु 'पाडेंति' इति पाठः, आराहणापडागाग्रन्थे तु 'पाडिंति' इति पाठः /
SR No.032801
Book TitlePadarth Prakash 26 Gunsthankramaroh
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2018
Total Pages234
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy