SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 118 श्रीयतिदिनचर्या अवचूर्णियुता एवमेकादशादि, ततः पञ्चपञ्चदिनवृद्ध्या क्रमेण मासं यावत् चिन्तनीयं, अथ पुनः पञ्चमे मासे सैव युक्तिः, आद्यमासवच्चिन्तनीयं, एवं चतुर्थे मासे सैव युक्तिः, एवं तृतीये द्वितीयेऽपि, ततः प्रथमे मासे ततस्त्रयोदशदिनं यावत्-त्रयोदशदिनोनं मासं कर्तुं शक्तोऽसि न वा ?, तत्रापि वदति-न शक्तोऽस्मि, ततस्त्रयोदशदिनोर्ध्वं चतुस्त्रिंशदादि ऊनं चिन्तयेत्, कथं ?, द्वयहान्या द्वयहान्या, यथा चतुस्त्रिंशत् द्वात्रिंशत् त्रिंशत् अष्टाविंशतिः षड्विशतिः चतुर्विंशतिः द्वाविंशतिः एवं चतुर्थं यावत् चिन्तयति, ततोऽप्याचाम्लादि नमस्कारसहितं यावत् यत्तपः तद्दिने कर्तुमुद्यतः तत्तपः चेतसि निधाय पश्चाद् गुरुसमक्षं आगारशुद्ध्या प्रत्याख्याति, तत्रागमयुक्तिरसौ-यथा आदितीर्थे वार्षिकं तपः, अन्यतीर्थकराणां तीर्थे आष्टमासिकं, चरमजिनतीर्थेषु षाण्मासिकं, यदाह - 'संवच्छरमुसभजिणे'त्यादि // 14 // अथ प्रत्याख्यानाधिकारात् तत् प्रत्याख्यानं कतिधेत्याशक्य गाथायुग्मेन आह - अणागय 1 मइक्कंतं 2 कोडीसहियं 3 निअंटिअं 4 चेव / सागार 5 मणागारं 6 परिमाणकडं 7 निरवसेसं 8 // 15 // संकेयं चेव अद्धाए पच्चक्खाणं तु दसविहं होइ / सयमेवऽणुपालणियं दाणुवएसे जह समाही // 16 // अथ प्रत्याख्यानविवरणं, तत् तपः, प्रत्याख्यानमादौ द्वेधामूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, इदमप्येकैकं हि द्विधा देशविरतिसर्वविरतिभेदात्, तत्र यतिश्रावकयोरनागतादि दशधा प्रत्याख्यानं, यदाहु:
SR No.032794
Book TitlePadarth Prakash 22 Yatidin Charya
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages246
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy