________________ अष्टमः सर्गः 363 करो' / विद्याधर के शब्दों में 'अत्र छेकानुप्राससहोक्त्यतिशयोक्त्यलंकाराः' / सह शब्द आने मात्र से सहोक्ति नहीं बनती। उसके मूल में कार्यकारणपौर्वापर्याः विपर्ययातिशयोक्ति होनी चाहिए / वह यहां नहीं दीख रही है। भ्र पर धनुष्ट्वारोप, स्मित पर वाणत्वारोप और नेत्रों पर शफरत्वारोप में व्यधिकरण रूपक है / नन्दन शब्द में श्लेष है। 'सह' 'सहि' 'मनसि' 'मानसो' में छेक ठीक है। 'धीन-मीन' में पदान्तगत अन्त्यानुप्रास और अन्यत्र वृत्त्यनुप्रास है। सर्गान्त में छन्दपरिवर्तन नियम के अनुसार कवि ने यहाँ 'स्रग्धरा' का प्रयोग किया है, जिसका लक्षण है—'म्नम्नैर्यानां त्रयेण विमुनियतियूता स्रग्धरा कीर्तितयम्' अर्थात् इसमें इक्कोस अक्षर इस तरह होते हैं-म, र, भ, न, य, य, य, और 7-7 में यति रहती है। स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धी त्वगपि ननु तनूमञ्जरीसौकुमार्य / नासा श्वासाधिवासेऽधरमधुनि रसज्ञा चरित्रषु चित्तं तन्नस्तन्वङ्गि ! कैश्चिन्न करणहरिणैर्वागुरालवितासि // 106 // अन्वयः- "हे तन्वङ्गि ! प्रतिरजनि नः कटाक्षः स्वप्नेन प्रापिताया तव श्रीषु मग्नः; श्रोत्रे गीतामृताब्धी ( मग्ने ); स्वक् अपि ननु तनू...ये ( मग्ना ); नासा श्वासाधिवासे ( मग्ना ); रसज्ञा अधर-मधुनि ( मग्ना ); चित्तम् चरित्रेषु ( मग्नम् ); तत् नः कैश्चित् ( अपि ) करण-हरिणः वागुरा ( त्वम् ) न लविता असि // 106 // टीका-हे तनु कृशम् अङ्गं शरीरं ( कर्मधा० ) यस्याः तत्सम्बुद्धौ ( ब० वी० ) हे कृशाङ्गि! रजन्यां रजन्यामिति प्रतिरजनि ( वीप्सायामव्ययी० ) न. अस्माकं कटाक्षः दृष्टिः स्वप्नेन स्वप्नावस्थया प्रापितायाः अनुभवविषयीकारितायाः इत्यर्थः तव ते धीषु लावण्येषु मग्नः बडितः भवतीति शेषः स्वप्ने दृष्टायास्तव लोकोत्तरसौन्दर्येऽस्माकं दृष्टि: निमज्जतीत्यर्थः, नः श्रोत्रे को तव गीतम् गानम् कण्ठस्वर इत्यर्थः एव अमृतम् ( कर्मधा० ) तस्य अब्धौ समुद्रे (10 तत्पु० ) मग्ने भवतः; नः त्वक स्पर्शेन्द्रियम् अपि तनु सत्यम् तव तनूः शरीरम् मज्जरी वल्लरी इव ( उपमित तत्पु० ) तस्याः सौकुमार्ये मृदुत्वे (10 तत्पु० ) मग्ना भवति; नः नासा नासिका तव श्वासस्य निःश्वासवायो: