________________ नैषधीयचरिते अष्टमः सर्गः अथाद्भुतेनास्त निमेषमुद्रमुन्निद्रलोमानममुं युवानम् / दृशा पपुस्ताः सुदृशः समस्ताः सुता च भीमस्य महीमघोनः // 1 // अन्वयः-अथ ताः समस्ताः सुदृशः महीमघोनः भीमस्य सुता च अद्भुतेन अस्त-निमेष-मुद्रम् उन्निद्र-लोमानम् अमुम् युवानम् दृशा पपुः / टीका- अथ नलस्य स्वप्रकटीकरण-विचारानन्तरम् ताः प्रसिद्धाः समस्ताः सर्वाः सु= शोभना दृक् नयनं यासां तथाभूताः (प्रादि ब० वी० ) सुन्दर्य सख्यः इत्यर्थः मह्याः पृथिव्याः मघोनः इन्द्रस्य (10 तत्पु०) भूपतेः भीमस्येत्यर्थ: सुता पुत्री दमयन्ती च अद्भुतेन दमयन्ती-लोकातिशायिसौन्दर्यकृत-विस्मयेन ( 'विस्मयोऽद्भुतमाश्चर्यम्' इत्यमरः ) अस्ता त्यक्ता निमेषमुद्रा ( कर्मधा० ) निमेषस्य नेत्रसंकोचस्य निमीलनस्येतियावत् मुद्रा प्रकारः स्थितिरित्यर्थः (10 तत्पु० ) येन तथाभूतम् (ब० वी० ) निनिमेषनेत्रमित्यर्थः उत् = उद्गता निद्रा येषां तथाभूतानि ( प्रादि ब० वी० ) उन्निद्राणि सात्विकभावोदयात् उत्थितानीत्यर्थः लोमानि रोमाणि ( कर्मधा० ) यस्य तथाभूतम् (ब० वी०) रोमाञ्चितमित्यर्थः अमम् एतम् युवानम् तरुणम् नलम् दृशा नयनेन पपुः पीतवत्यः सतृष्णम् अपश्यन्नित्यर्थः / दमयन्तीसमेताः ताः सकलाः बालाः दमयन्ती-सौन्दर्येण चकितचकितम् हर्षेण रोमाञ्चितगात्रं च नलं साभिलाषं निनिमेषञ्च ददृशुरिति भावः // 1 // ___ व्याकरण-अद्भुतेन यास्काचार्यानुसार अभूतमिवेति ( पृषोदरादित्वात् साधुः ) / युवानम् यौति ( शरीरतः स्त्रिया मिश्रीभवति ) इति /यु + कनिन् समस्ताः सम् + / अस् + क्तः / मघोनः यास्कानुसार 'मघमिति धननाम तद्वान भवतीति / अनुवाद-तदनन्तर वे सभी सुन्दरियां तथा भीम नृपकी पुत्री ( दमयन्ती)