________________ नषधीयचरिते है, साथ ही 'सत्येव' में अवधारणार्थक एव शब्द को कवि ने विरोधार्थक अपि शब्द के स्थान में प्रयुक्त किया है। एव विरोधवाचक होता ही नहीं, अतः अवाचकत्व दोष भी है। पुराकृतिस्त्रैणमिमां विधातुमभूद्विधातुः खलु हस्तलेखः / येयं भवद्भाविपुरंध्रिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् // 15 // अन्वयः-पुराकृतिः स्त्रैणम् इमाम् विधातुम् विधातुः खलु.हस्तलेखः अभूत्; या इयम् भवद् सृष्टिः सा अस्य तजयजम् यशः प्रदातुम् ( अस्ति ) / ____टोका-पुरा पूर्व कृतिः निर्माणम् ( सुप्सुपेति समासः ) यस्य तथाभूतम् (ब० वी० ) स्त्रैणम् ( उर्वश्यादि ) स्त्रीसमूहः इमाम् दमयन्तीम् विधातुम् निर्मातुम् खलु इव हस्तस्य लेख:: (10 तत्सु० ) हस्तकृतं स्थूल-लेख्यमित्यर्थः स्थूलरूपरेखेति यावत् अभूत जातः / विधात्रा पूर्व या अपि सुन्दर्यः सृष्टाः ताः सर्वा दमयन्ती-निर्माणार्थं पूर्वाभ्यास-रूपा एवेति भावः / या च इयम् भवन्त्यः वर्तमानाश्च भाविन्यः भविष्यन्त्यश्च पुरंध्रयः स्त्रियः ( उभयत्र कर्मधा० ) तासां सृष्टिः निर्माणम् (10 तत्पु०) अस्तीति शेषः, सा सृष्टिः अस्यै दमयन्त्यै तासा, भवद्-भावि-पुरंध्रीणाम् यो जयः सौन्दर्येण पराभवः (10 तत्पु० ) तस्मात् जायते उत्पद्यते इति तथोक्तम् ( उपपद तत्पु० ) यशः कीर्तिम् प्रदातुम् वितरीतुम् अस्ति / पूर्वा स्त्रीसृष्टि: दमयन्ती-निर्माणार्थम् ब्रह्मणो हस्ताभ्यासः वर्तमानभविष्यत्कालयोश्च क्रियमाणा स्त्रीसृष्टिश्च दमयन्तीकृते तज्जयोत्थयशोलाभायेति भावः // 15 // व्याकरण-कृतिः कृञ् + क्तिन् ( भावे ) / स्त्रैणम् स्त्रीणाम् समूह इति स्त्री + नञ् , णत्व / पुरंध्रिः पुरम् = गृहजनम् धारयतीति पुर + + खच् + डीप विकल्प से ह्रस्व ( ‘ड्यापोः संज्ञा०' 6 / 3 / 63 ) / जयजम् जय + / जन् + ड। अनुवाद-पहले की रची हुई स्त्रियाँ तो इस ( दमयन्ती ) को रचने हेतु मानो विधाता की स्थूल रूपरेखायें-पूर्वाभ्यास थीं और जो यह वर्तमान और मविष्यकाल की स्त्रियों की सृष्टि है, वह इस ( दमयन्ती ) को उनके पराजय से होनेवाला यश प्रदान करने हेतु है // 15 // टिप्पणी-कवि नल के हाथों दमयन्ती को सर्वसौन्दर्यातिशयी रूप में