________________ 1578 नैषधमहाकाव्यम् / के लेश (मलिनतम क्षुद्र भाग ) इस समय ( बहुत दिनोंके व्यतीत हो जानेपर ) मी कमलोंको बना ( उत्पन्न कर ) रहे हैं। [ लोकमें भी कोई शिल्पी किसी वर्तनमें रखी हुई सामग्री प्रधान वस्तुको बनाकर उस वर्तनमें लगी हुई शेष सामग्रीको पोंछ लेता है और पोंछनेसे वर्तनके संसर्गसे मलिन उस सामग्री से दूसरी वस्तुको बनाकर पानीमें हार्थोको धो लेता है / कमलसे चन्द्रमा श्रेष्ठ है और चन्द्रमासे भी तुम्हारा मुख श्रेष्ठ है ] // 142 / / लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा चन्द्रः प्रोञ्छनलब्धतार्द्धमलिनेनारम्भि शेषेण यः / तल्लेखाऽपि शिखामणिः सुषमयाऽहकृत्य शम्भोरभू. दब्जं तस्य पदं यदस्पृशदतः पद्मञ्च सद्म श्रियः / / 143 / / लावण्येनेति / अखिलेन लावण्येन तव वदनमारम्भि / ततो भवद्वदनकामनीयकवर्णनातिचिन्तापि दूरे तिष्ठतु, अशक्यकरणस्वादित्यर्थः। उक्तरीत्या तत्पात्र मात्रस्पृशा प्रोन्छनलब्धताधेमलिनेन शेषेण तु यश्चन्द्रः विधिना निरमायि तस्य लेखापि लावण्यपात्रमात्रस्थलावण्यनिमितस्य चन्द्रस्य षोडशांशरूपा कलापि कला. मात्रत्वादेव निष्कलङ्कत्वात् सुषमया परमया शोभया कृत्वा अहंकृत्य अस्यापेक्षयाऽह. मेव रमणीयेति दमवलम्ब्य शंभोःशिखामणिःशिरोभूषणमभूच्छिवशिरोऽध्यरोहत् / अन्यदपि सदर्पमुत्तमशिरोऽधिरोहति / अब्जं कुमुदं कर्तृ यद्यस्मात्तस्य चन्द्रस्य पदं प्रतिबिम्बस्थानं जलमस्पृशत् / अतः श्रियः सद्माभूत् / चन्द्रकरस्पर्शादेव हि कुमुदं सश्रीकं भवति पद्मं च श्रियः सद्माभूत् / जलस्य चन्द्रकिरणसंस्पर्शात् पद्मस्य च तत्रोत्पन्नत्वाद्वर्तमानत्वात्कुमदसाहचर्याच्च पद्ममपि लक्ष्याः स्थानमभूत् / यद्वापद्म चातः कुमदाद्धेतोः श्रियः सद्माभूत् / अब्जस्वजातियोगाकुमुदाधारजलयोगाच्च कुमदादेव परम्परया पद्मानां लक्ष्मीगृहत्वमभदित्यर्थः / यद्वा-या तल्लेखा शम्भोः शिखामणिरभत् , तस्य शिखामणेश्चन्द्रस्य पदं स्थानं शिवमस्तकं पूजासमये यस्मास्कुमदं पद्मं चास्पृशत् , अतस्तदुभयं श्रियः समाभत् / चन्द्रसंबद्धशिरःसंबन्धादु. भयं श्रीगृहमभूदित्यर्थः, यद्वा-तस्य शंभोः पदं चरणं पूजावशाधस्मात्कुमदं पद्म चास्पृशत् तस्मादुभयं श्रीसद्माभत्, तस्य लावण्यस्य स्थानं विधिहस्तलेपक्षालनजलं यस्मात्कुमदं पद्म चास्पृशत्। यद्वा-पद्ममेवास्पृशत् / यतोऽब्ज तस्मात्कुमदम, पद्म च पद्ममेव वा श्रीसद्माभदिति वा / त्वन्मुखलावण्यलेशपरम्परासंस्पर्शप्राप्तशोभानि चन्द्रादीनीति त्वमखलावण्यं वाङ्मनसगोचरो न भवतीति भावः / अर्थान्तरस्य स्पष्टत्वात् , पूर्वाधस्य त्वर्थान्तरप्रतिपादनार्थमनुवादरूपत्वान्नायं श्लोकः पुनरुतः / 'अहम्' इति विभक्तप्रतिरूपकमव्ययं, तस्य कान्तेन 'सह सुपा' इति समासे क्त्वो ल्यप् // 143 // ( उसी बातको कुछ भिन्नकर प्रकारान्तरसे कहते हैं-हे प्रिये ! ब्रह्माने ) सम्पूर्ण