________________ एकविंशः सर्गः। 1453 दत्तेन, विधुना चन्द्रेण, लोचनेन नेत्रेण, चन्द्रारमकवामनयनेनेत्यर्थः / मम मे, तापम् आध्यात्मिकादिसन्तापत्रयमित्यर्थः / न विधुनासि ? न अपनयसि ? इति काकुः, अपि तु विधुनास्येवेत्यर्थः। भास्करेण तमोविधूननस्य विधुना च तापविधूननस्य सम्भवत्वादिति भावः। धूज कम्पने इत्यस्मात् क्रैयादिकात् सिपि 'प्वादीनां हस्वः // 101 // हे स्वामिन् ! भक्तियुक्त मुझको दहने नेत्ररूप सूर्य अनुगृहीतकर अन्धकाररहित ( पक्षा०-अज्ञानरहित ) करो तथा मुझपर दिये गये वाम नेत्ररूप चन्द्रसे मेरे सन्ताप ( पक्षा०-आध्यात्मिक, आधिदैविक तथा आधिभौतिकरूप तापत्रय ) को नहीं दूर करते हो क्या ? अर्थात् अवश्य करते हो / [ सूर्यको दहना नेत्र होनेसे उसके द्वारा अन्धकारको दूर करना तथा चन्द्रको बायाँ नेत्र होनेसे उसके द्वारा सन्तापको दूर करना उचित ही है ] // लङ्घयनहरहर्भवदाज्ञामस्मि हा ! विधिनिषेधमयों यः / दुर्लभं स तपसाऽपि गिरैव त्वत्प्रसादमहमिच्छरलज्जः / // 102 / / लङघयन्निति / हे विष्णो ! यः योऽहं नलः, अहरहः नित्यं, विधिनिषेधमयीं विधिः-'वसन्ते ज्योतिष्टोमेन यजेत' इत्यादिरूपः, निषेधः-'न सुरां पिबेन्न कलङ्गं भक्षयेत्' इत्यादिरूपश्च, तन्मयीं तदारिमकाम् , भवदाज्ञां त्वदादेशं, 'श्रतिस्मृती ममैवाज्ञे' इत्यनुस्मरणात् , लङ्घयन् अतिक्रामन् अस्मि वर्ते, हा ! खेदे, स उक्तरू. पाज्ञालङघनकारी, अहं नलः, अलजः निस्वपः सन् , गिरैव वचनेनंव, 'मामनुगृहाण मामनुगृहाण' केबलमित्येवंरूपवाक्प्रयोगणवेत्यर्थः। तपसा अपि कठोरतपस्य. याऽपि, दुर्लभं दुष्प्रापम् , त्वत्प्रसादं भवदनुग्रहम् , इच्छुः अभिलाषुकः, अस्मीति शेषः / यस्य खलु तव प्रसादः सर्वदा तपस्यादिक्रियानुष्ठानरूपेण महता प्रयत्नेन लभ्यः, स मया सर्वदा तवाज्ञालङ्घनकारिणा वाङ्मात्रेणैव प्रायते इत्यहो मे निर्लज्जता! सर्वथा अनुग्राह्योऽस्मीति भावः // 102 // जो मैं ( 'प्रत्येक वसन्त ऋतुमें ज्योतिष्टोम याग करें' इत्यादि) विध्यात्मक तथा ('मद्य पान न करे' इत्यादि ) निषेधात्मक आज्ञाको प्रतिदिन लङ्घन करता रहा, हाय ! (खेद है कि ) वह मैं तपसे भी दुईभ आपकी प्रसन्नताको ( मुझपर अनुग्रह करें, मुझपर अनुग्रह करें इत्यादि रूप ) वाङमात्रसे ही चाहता हुआ निर्लज्ज हूँ। [अत एव हे भगवान् ! आप मेरी सर्वथा रक्षा करें] // 102 // विश्वरूप ! कृतविश्व ! कियत् ते वैभवाद्भुतमणौ हृदि कुर्वे / हेम नह्यति कियनिजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः ? / / 103 / / विश्वेति। विश्वरूप ! हे सर्वात्मक ! 'सर्व खल्विदं ब्रह्म' इत्यादि श्रुतेरिति भावः / कृतविश्व ! हे सम्पादितभुवन ! 'यतो वा इमानि भूतानि जायन्ते' इत्यादि श्रतेरिति भावः। अणी अत्यन्तसूचमपरिमिते, हृदि हृदये, ममेति शेषः। ते तव,