SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ 1432 नैषधमहाकाव्यम् / बलरामके केशोंको भी स्वत एव श्वेतवर्ण होना उचित ही है। अथवा श्वेत केश सहज ही है, वाद्धंक्यके संसर्गसे नहीं है, क्योंकि पुराणादि शास्त्रों में विष्णुको सर्वदा तरुण ही कहा गया है। वस्तुतस्तु-प्रकाशक होनेसे सत्त्वगुण 'सित' (श्वेत) शब्दका और मोहक होनेसे तमोगुण 'असित' (कृष्ण ) शब्दका वाच्य है और सत्त्व तथा तमोगुणद्वयात्मक अवतार को पृथ्वीका भार दूर करने के लिए आदिनारायण भगवान्ने अपनेसे प्रकट किया है, ऐसा विष्णुपुराणस्थ 'सित' शब्द का अर्थ जानना चाहिये और कृष्णजी तो लीला. विग्रहधारी साझात स्वयं परब्रह्म ही हैं, क्योंकि भगवान्का कोई भी शत्रु या मित्र नहीं है, वे तो सबमें समान व्यवहारकर्ता हैं / 'रामो रामश्च रामश्च' इस वचनके अनुसार बलरामजी अवतार-विशेष हैं, अन्यथा बलरामजी श्वेत होनेसे सत्त्वमूर्ति तथा कृष्णजी कृष्णवर्ण होनेसे तमोमूर्ति माने जायेंगे, किन्तु ऐसा नहीं है, क्योंकि बलरामजीको तमोगुणप्रधान तथा कृष्णजीको सत्त्वगुणप्रधान होना सर्वसम्मत सिद्धान्त है // 5 // हृद्यगन्धवह ! भोगवतीशः शेषरूपमपि बिभ्रदशेषः / . भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचिस्त्वम् / / 81 // हृद्येति / हृद्यं मनोहरम, गन्धं चन्दनादिसौरभम् , वहति धारयतीति हृद्यगन्धवहः तस्य सम्बोधनम् , हे हृद्यगन्धवह ! भोगवत्याः सुखभोगोचितायाः ककुमिकन्यायाः 'रेवत्याः, ईशः भर्ता, भोगः सकचन्दनादिधारणम् , भूतिः ऐश्वर्यम् , भूषणादिधारणरूपा समृद्धिरित्यर्थः। मदिरा सुरा च, सुरापानञ्चे. स्यर्थः / ताभिः रुचिरा मनोहारिणी, श्रीः सौन्दर्य यस्य स तादृशः यद्वा-भोगस्य सम्भोगस्य, भूतिः समृद्धिः, भूतिकारिणीत्यर्थः / तया भोगभूत्या भोगसमृद्धि जनिकया, मदिरया सुरया, रुचिरा मनोज्ञा, श्रीः शरीरशोभा यस्य स ताहशः, मदिराया नेत्रलौहित्यादिरूपशोभाजनकत्वादिति भावः / बलभद्रस्य मदि. राप्रियस्वादियमुक्तिः / उल्लसन्ती शोभमाना, कुमुदानां कैरवाणाम् , बन्धोः सख्युः, चन्द्रस्येत्यर्थः / रुचिः इव रुचिः शुभ्रशरीरकान्तिः यस्य सः तादृशः, त्वं भवान् , शेषस्य अनन्तनागस्य, रूपं मूर्तिम् , बिभ्रदपि धारयन्नपि, बलभद्रस्य शेषावतार. स्वादिति भावः / अशेषः शेषो न, शेषात् अनन्तनागात् भिन्नः इत्यर्थः / असि इति शेषः, यो हि शेषः सः कथम् अशेषः इति शब्दतो विरोधः। अन्यच्च-हे विष्णो ! हृद्यः, आहारेण हृदयान्तस्थः, गन्धवहः वायुः यस्य स तादृशः, सर्पाणां पवनाशनत्वात् इति भावः / तत्सम्बुद्धी हे हृधगन्धवह ! भोगः फणः विद्यते अस्याः इति भोगवती नागरमणी / 'भोगः सुखे स्न्यादिभृतावहेश्च फणकाययोः' इत्यमरः। तस्याः ईशः स्वामी, यद्वा-भोगवत्याः पातालगङ्गायाः, ईशः अधिपतिः, अनन्तस्य पाता. लाधिपतित्वादिति भावः / हृद्यगन्धवहभोगवतीशः इत्यस्य समस्तपदत्वे हृधगन्धः वहश्च असौ भोगवतीशश्चेति विशेषणसमासः / भोगानां फणानाम् , भूतिः सम्पत्,
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy