________________ 766 नैषधमहाकाव्यम् / एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूत् भुवि समरसमालोकिलोकास्पदेऽपि / अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्घसङक्षुभ्यमाण मापृष्ठोत्तिष्ठदन्धङ्करणरणधुरारेणुधारान्धकारात् // 10 // एतेनेति। समरसमालोकिलोकास्पदे युद्धप्रेक्षकजनालयेऽपि, भुवि युद्धभूमी, अस्वैरवगैः अमन्दवेगैः, 'मन्दस्वच्छन्दयोः स्वैरः' इत्यमरः, अश्वैः कृताभिः खुरखुरलीभिः खुरसञ्चारः, मनु सपदि, 'द्राक मक्षु सपदि द्रते' इत्यमरः, सक्षुभ्यमाणात् सञ्चयॆमानात् , चमापृष्ठात् भूतलात् , उत्तिष्ठताम् उत्पतताम् , अन्धाः क्रियन्ते एभिरित्यन्धङ्करणाः दृष्टिशक्तिरोधिनः तेषाम् , 'अट्यसुभग-' इत्यादिना ख्युन्प्रत्ययः रणस्य युद्धक्षेत्रस्य, धूरग्रं रणधुरा, 'ऋक्पू:-' इत्यादिना समासान्तः / तस्यां रेणनां धूलीनां धारा सन्ततिः सैवान्धकारः तस्माद्धेतोः, एतेन राज्ञा, उत्कृत्तकण्ठः छिन्नकण्ठैः, प्रतिसुभटैः परवीरैः एव, नटेनतकः, कबन्धरूपेरितिः यावत् , आरब्धानाम् आचरितानां, नाट्याभूतानां, विस्मयावहनाटकप्रबन्धानाम् इत्यर्थः द्रष्टैव दर्शक एव न अभूत् द्रष्टुं न समर्थ एव इत्यर्थः, कष्टम् एतद्दुःखकरम् // 10 // युद्ध-दर्शकों के स्थानभूत पृथ्वीपर ( अथवा-पृथ्वीपर तथा युद्धदर्शक ( देव )-समूह स्थान अर्थात् स्वर्ग में ) तीव्रगति घोड़ों के खुरोंके बार-बार रखनेसे शीघ्र सञ्चर्णित होते हुए भूतलसे उड़ते हुए अन्धा ( दर्शन-शक्ति नष्ट ) करनेवाली धूलियोंके समूहसे उत्पन्न अन्धकारसे इस (राजा) के द्वारा काटे गये कण्ठवाले शत्रु योद्धारूप नटोंके द्वारा प्रारम्भ किये गये विचित्र नृत्य अर्थात् धड़के नाचनेको देखने वाला ही नहीं हुआ। [ इस राजाके घोड़ोंके खुरसे इतनी अधिक धूलि उड़ी कि उससे भूतल तथा आकाशमें अन्धकार हो जानेसे युद्धभूमिमें इसके शत्रुओंके नाचते हुए धड़को कोई भी नहीं देख सका ] // 100 // उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूरक्रोडक्रोडद्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः / एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रमाली व्यालीढोपान्तशान्तव्यथपथिकहशां उत्तरागस्तडागः // 101 / / उन्मीलदिति / उन्मीलल्लीलानां स्फुरद्विलासानां, नीलोत्पलदलानां दलनेन विकासेन, य आमोदस्तेन मेदस्विनि परिपुष्टे, तद्बहुले इत्यर्थः, पूरक्रोडे जलराशेः उत्सङ्गे क्रीडन्तीनां द्विजालीनां पक्षिगणानां, गरुदुदितस्य पक्षोत्थस्य, मरुतः वायोः स्फालेन आस्फालनेन, वाचालः मुखरः, वीचिः तरङ्गः यस्य सः, शाखानिवहेन नवैर्हरिभिः हरितैः नीलपीतमिश्रितवर्णरित्यर्थः, पणैः पत्रैः, पूर्णाभिः द्रुमालीभिः तरुश्रेणीभिः, व्यालीः व्याप्तैः, उपान्तः समीपवर्तितरप्रदेशैः शान्तव्यथानां