________________ 1386 नैषधमहाकाव्यम् / यस्याः तथोक्ताम् , द्याम् आकाशं स्वर्गञ्च / 'द्यौः स्वर्गसुरवर्मनोः' इत्यमरः / करे हस्ते, उपनीय संस्थाप्य, अयच्छत् नु ? अददात् किम् ? प्रजाभ्य इति शेषः / दाना. यैव तत्ग्रहणसम्भवादिति भावः / द्यौःशब्दस्य स्वर्गाकाशवाचिस्वाच्छलेनोक्तिः॥१०॥ इस ( नल ) के द्वारा आचमन करने के लिए चुल्लू में लिये हुए गङ्गाजल ने स्वच्छतासे प्रतिबिम्बित आकाश ( पक्षा०-स्वर्ग) को लाकर हाथमें दे दिया है क्या ? [ लोकमें भी दुर्लभ वस्तुको लाकर पुण्यात्मा तथा प्रियतम व्यक्ति के हाथमें दे दिया जाता है ] // 10 // मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा / अङ्गमङ्गमनु किं परिरेभे तं मृदो जलमृदु गृहयालुम् ? 11 / / मुक्तमिति / भूमिः तिलकार्थं गृहीता रक्तवर्णा मृत्तिका, अत्र स्मृतिः-'विप्रा गौरमृदः प्रोक्ताः क्षत्रा रक्ताः प्रकीर्तिताः' इति / दमनस्य भीमात्मजस्य, भगिन्या सोदरया दमयन्या, मुक्तं स्नानार्थं परित्यक्तम् , मृदःतिलकार्था मृत्तिकाः, गृहयालं, ग्रहीतारम्, आत्मनः स्वस्य दयितं प्रियम्, पतिमिति यावत् / राज्ञो भूपतित्वादिति भावः / तं नलम्, आप्य लब्ध्वा, धृतः गृहीतः, बद्ध इत्यर्थः। रागः स्वभावत एव रक्तवर्णः अनुरागश्च यया सा तथोक्ता सती। 'रागोऽनुरागे मात्सर्ये क्लेशे च लोहि. तादिषु' इति विश्वः / जलेन स्नानोदकेन, मृदु कोमलम् , अङ्गम् अङ्ग ललाटादिकं प्रत्यवयवम्, अनु लक्ष्यीकृत्य, परिरेभे आलिलिङ्ग किम् ? अन्याऽपि सपत्न्या दूरेऽव. स्थितं वल्लभं प्राप्य सानुरागा सती यथा प्रत्यङ्गमालिङ्गति तद्वदिति भावः / ललाटादिषु द्वादशाङ्गेषु मृत्तिलकानि चकारेति निष्कर्षः // 11 // दमयन्तीसे मुक्त ( छोड़े गये-पृथक् स्थित, तथा तिलकके लिए ) मिट्टीको लेनेवाले, अपने पति उस ( नल ) को राग ( लालिमा, पक्षा०-अनुराग) से युक्त पृथ्वी (मिट्टी) ने जल ( द्वारा स्नान करने ) से कोमल प्रत्येक अङ्गका आलिङ्गन किया ? / [ जिस प्रकार कोई सपत्नी स्त्री किसी दूसरी सपत्नीसे पृथक् किये गये, उसे चाइते हुए पतिको प्रत्येक अङ्गका आलिङ्गन करती है, उसी प्रकार पृथ्वीने दमयन्तीसे पृथक् स्थित तिलकार्थ मिट्टीको हाथमें ग्रहण करते हुए नलके जलसे कोमल अर्थात् सुख-स्पर्श प्रत्येक अङ्गोंका मानो सानुराग होकर आलिङ्गन किया / नलने प्रत्येक अङ्गमें लालवर्णको मिट्टीका तिलक लगाया] // मूलमध्यशिखरश्रितवेधःशौरिशम्भुकरकाघ्रिशिरःस्थैः। तस्य मूनि च करे शुचि द.र्वारि वान्तमिव गाङ्गतरङ्गैः // 12 // मूलमिति / मूलमध्यशिखराणि दर्भाणाम् आदिमध्याग्राणि, श्रितानां यथाक्रम प्राप्तानाम्, वेधःशौरिशम्भूनां ब्रह्मविष्णुरुद्राणाम, अत्र स्मृतिः-'कुशमूले स्थितो ब्रह्मा कुशमध्ये तु केशवः / कुशाग्रे शङ्करं विद्यात् त्रयो देवाः कुशस्थिताः॥' इति / करकाशिशिरःसु कमण्डलुपादमस्तकेषु, तिष्ठन्ति वर्तन्ते इति तथोक्तैः, गाङ्गैः गङ्गासम्बन्धिभिः तरङ्गैः ऊर्मिभिः, वान्तं निष्ठयतम् इव, स्थितमिति शेषः / शुचि