________________ एकविंशः सर्गः। 1383 राजाओंको अङ्गुलि आदिका सङ्केतकर पारितोषिकरूपमें दिलवानेसे नलका लोभाभाव अधिक उदारता एवं भृत्यों के प्रति दयालुता सूचित होती है ] // 4 // तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य / अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः // 5 // तानिति / अथ उपहारग्रहणदानानन्तरम् , अमितम् अतुलनीयम्, ओजः तेजः यस्य तादृशः, असौ नलः, कुशलस्य कुशलप्रश्नस्य सूनृतस्य सत्यप्रियवचनस्य च, पीयूषरूपस्येति भावः / सेकैः वर्षणैः, उक्तिभिरित्यर्थः / तर्पितान् प्रीणितान , तान् नृपान् , विसृज्य सम्प्रेष्य, गमनाय अनुमत्य इत्यर्थः / शैष्यकेण शिष्यत्वेन / 'योप. धाद्गुरूपोत्तमावु' / उपनमितान् समेतान् , युद्धशिक्षार्थ शिष्यभावेन समागतानित्यर्थः / नृपानिति शेषः / पितेव जनक इव, अस्त्रेषु धनुरादिषु, शस्त्रेषु खड्गादिषु, खुरलीषु भ्रमणविशेषेषु, अस्त्रशस्त्राणां खुरलीषु प्रयोगसंहारविषयेषु इति वा, विनिन्ये शिक्षितवान् // 5 // इस ( उपहार स्वीकार करने ) के बाद अपरिमित बलशाली इस ( नल) ने कुशल. प्रश्न तथा सत्यप्रिय भाषणोंसे सन्तुष्ट किये गये उन राजाओंको भेजकर शिष्यभावसे ( शिष्य बनकर ) आये हुए राजाओंको अस्त्र (धनुष-बाणादि ), शस्त्र (खड्ग, कुन्त आदि ) तथा खुरली ( भ्रमण-भ्रमण-विशेष; अथवा-अस्त्र-शस्त्रके प्रयोग एवं प्रहार करने) में पिताके समान शिक्षित किया // 5 // मर्त्यदुष्प्रचरमस्त्रविचारञ्चारु शिष्यजनतामनुशिष्य | स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छः // 6 // मयति / सः नलः, मत्र्येषु मनुष्यलोकेषु, दुष्प्रचरम् अविद्यमानप्रसरम , अस्त्र. विचारम् अस्त्रशिक्षाम् , शिष्यजनतां शिष्यभूतनृपसमूहम् , चारु सुष्ठु यथा भवति तथा, अनुशिष्य शिक्षयित्वा, स्वेदेन धर्मोदकेन, बिन्दुकितः सनातबिन्दुका, गोधिः ललाटं यस्य सः तादृशः सन् / 'ललाटमलिकं गोधिः' इत्यमरः। अधीरम् अस्थिरं यथा भवति तथा, श्वसन् श्रमजनितदीर्घदीर्घश्वासं त्यजन् , आप्लवनं स्नानम् , तदिच्छुः तदभिलाषी, अभवत् अजायत // 6 // (नलेतर ) मनुष्यमात्रसे अविदित अस्त्र-विचार ( आयुधके प्रयोग तथा संहार ) शिष्यसमूहको अच्छी तरह ( अथवा-प्रौढ़ मतिवाले शिष्य-समूहको) सिखाकर स्वेदविन्दुयुक्त ललाटवाले तथा अधिक श्वास लेते (हॉफते) हुए उस (नल) ने स्नान करना चाहा // 6 // यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम् / गन्धवाभिरनुबन्धितभृङ्गैरङ्गनाः सिषिचुरुच्चकुचास्तम् // 7 // 1. 'शिष्यतोप-' इति पाठान्तरम् /