SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ऊनविंशः सर्गः। 1249 अवस्थापनादिति भावः / अत एव शुधा शुधया, क्षीरस्यन्तः क्षीरम् मास्मनः भृशमिच्छन्तः, दुग्धं पिपासतः इत्यर्थः / एते द्वेषाध्वनिना अनुमितसमीपावस्थाना इत्यर्थः / अश्वकिशोरकाः घोटकबालकाः। 'बालः किशोरः' इत्यमरः / विलोलितबालधि सञ्चालितपुच्छं यथा तथा, मधुरमधुरम् अतिशयेन मनोहरम् , द्वेषन्ति स्वनन्ति / किञ्च मणिमन्थभूधरः सैन्धवाचलः / सैन्धवोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे' इत्यमरः / तद्भावानां तजानाम् , शिलानां लवणोपलविशेषाणाम् , लेहाय आस्वादाय, ईहाचणः चेष्टया वित्तः, लवणलोलुपत्वेन ख्यात इत्यर्थः। 'तेन वित्त. चुचुपचणपौ' इति चणपप्रत्ययः / तुरगाणां घोटकानाम् , समजः समूहः / 'पशूनां समजः' इत्यमरः। 'समुदोरजः पशुषु' इत्यप्प्रत्ययः। क्वणन् शब्दायमानः, हेषाध्वनि कुर्वन् इत्यर्थः / 'क्वणन्मणि मन्थभू' इति व्यस्तपाठे-मन्थभूदरः रविपर्वतः, उदयाचल इत्यर्थः / 'मन्थो रवी मथि / सातवे नेत्ररोगे च' इति हैमः / तद्भवशि. लालेहाय ईहाचणः तुरगसमजः, क्वणन्तः शब्दायमानाः, मणयः सुद्रघण्टिकासमूहा यस्मिन् तत् यथा तथा क्वणकिङ्किणीकं यथा तथा इत्यर्थः। स्थानोस्थायं स्थानात् निजशयनप्रदेशात् , उत्थाय उद्त्य / 'अपादाने परीप्सायाम्' इति णमुल / लवणस्यति लवणम् आत्मनः भृशमिच्छति, लवणं मोक्तुमिच्छतीत्यर्थः। 'अश्वक्षीरइत्यादिना 'क्षीरलवणयोर्लालसायाम्' इत्यर्थनियमेऽसुगागमः। लालसा तृष्णातिरेकः // 18 // रात्रिमें (मातासे पृथक् बंधे रहने से ) निराहार एवं भूखसे दूध पीनेकी अधिक इच्छा करते हुए ये घोड़ों के बछड़े पूछको हिलाते हुए अतिशय मधुर हिनहिना रहे हैं तथा शयनस्थानसे शीघ्र उठकर हिनहिनाता हुआ एवं सैन्धव पर्वतकी शिला (चट्टानों-सेंधानमकके बड़े-बड़े टुकड़ों) के चाटने की इच्छासे युक्त (पाठा०-शयनस्थानसे तत्काल उठकर उदयाचलकी शिलाको चाटनेकी इच्छासे युक्त तथा गलेमें पड़े हुए मणियों की घुघुरु ओंको बारबार बजाता हुआ) अश्वसमूह नमक चाहता है / (घोड़ों के छोटे बच्चे दूध पीना तथा उठकर नमक चाटना चाहते हैं ] // 18 // उडुपरिषदः किं नाहत्त्वं ? निशः किमु नौचिती ? पतिरिह न यत् ताभ्यां दृष्टो गणेयरुचीगणः / स्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मन च्छवि यदनयोविच्छेदेऽपि मृतं बत न द्रुतम् / / 19 / / उडिवति / उदुपरिषदः तारागणस्य, अर्हतः भावः अहत्त्वं पूज्यत्वम् , प्रशंसनी. यत्वमित्यर्थः / प्रागेवास्तगमनस्येति भावः।न किम् ? अपि तु अर्हत्वमेव / 'अर्हत्त्वम् इति पाठे-अर्हत्वम् औचित्यम् , न किम् ? अपि तु औचित्यमेवेत्यर्थः / 'आर्हन्ती' 1. 'नाहत्वम्' इति, 'नाहंन्ती' इति च पाठान्तरम् / 2. 'द्रुतम्' इति पाठान्तरम्।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy