________________ अष्टादशः सर्गः। 1171 हँस दिया / अधिक हँसनेपर दमयन्तीको पुनः मयभीत होनेको आशङ्कासे कामशास्त्रज्ञ नलने थोड़ा ही हँसा] // 38 // लज्जया प्रथममेत्य हूकृतः साध्वसेन बलिनाऽथ तर्जितः / किश्चिदुच्छ्वसित एव तद्धृदि न्यग्बभूव पुनरर्भकः स्मरः // 36 // लजयेति / अर्भकः शिशुः, अप्रगल्भावस्थत्वात् तथा रूपणम् / स्मरः कामः, तस्याः दमयन्त्याः , हृदि चेतसि, किञ्चित् ईषत् , उच्छवसितः स्फुरित एव पूर्वोक्तचु. म्बनाद्यपलालनेन किश्चिदुल्लसितः सन् एवेत्यर्थः / प्रथमम् आदौ, लजया हिया, एत्य आगत्य, हूकृतः हङ्कारेण वारितः, अथ तदनन्तरम् , तथाऽप्युल्लसने बलिना ततोऽपि प्रबलेन, साध्वसेन त्रासेन, तर्जितः भर्सितः सन् , पुनः भूयः, न्यग्बभूव सम्चुकोच प्रशशामेत्यर्थः // 39 // उस ( दमयन्ती) के हृदयमें (पूर्वोक्त ( 18137-38) आलिङ्गन-चुम्बनादिव्यापारसे ) थोड़ा बढ़ा हुआ (अत एव ) बालक ( कुछ समय पहले उत्पन्न ) कामदेव आकर पहले लज्जासे डराया गया और बाद में अधिक मयसे तर्जित किया गया अत एव सङ्कुचित हो गया। [नल के आलिङ्गन चुम्बनादि करनेपर आनन्दसे दमयन्तीके हृदयमें थोड़ा काम उत्पन्न हुआ, किन्तु पहले लज्जासे कुछ ( बहुत थोड़ा ) दबा, बाद में अधिक भय होनेसे अधिक दबकर सङ्कुचित हो गया। जिस प्रकार थोड़ी आयुवाला बालक माताके पास आता है तो वह पहले माताके हुङ्कारसे तदनन्तर अधिक तर्जित होनेपर भयसे सङ्कुचित हो जाता है, वही दशा थोड़े समय पहले दमयन्तीके हृदयमें उत्पन्न होने वाले बालरूप कामदेवकी हुई। दमयन्तीन नलकृत आलिङ्गन-चुम्बनादिसे अपने हृदयमें उत्पन्न कामको लज्जा तथा अतिशय वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम् / एककाश्चरमरोधि बालया तल्पयन्त्रणनिरन्तरालया / / 40 // वल्लभस्येति / स्मरोत्सवे सुरतारम्भे, प्रसभं बलात् , अङ्कपालिकाम् आलिङ्गनम्। 'सम्परीरम्भ आश्लेषः परिष्वङ्गः प्रगूहनम् / आलिङ्गनमपि क्रोडीकरणन्चाङ्कपास्यपि॥' इति यादवः / दिसतोः दातुमिच्छतोः, आलिङ्गनप्रवृत्तयोरित्यर्थः / ददातेः सनन्ताल्लटः शत्रादेशः, 'सनि मीमा-' इत्यादिना इत्वेऽभ्यासलोपः / वल्लभस्य प्रियस्य, भुजयोः बाह्वोः, एककः एको भुजः, असहाये कन्-प्रत्ययः / तल्पयन्त्रणे शय्यानिरो. धने, शय्याऽऽम्लेषणे इत्यर्थः / निरन्तरालया अव्यवधानया, दृढरूपेण निरन्तराश्लिष्ट तल्पया इत्यर्थः / बालया तरुण्या भैग्या, चिरं दीर्घकालम, अरोधि निरुद्धः, तल्पमाश्लिष्य प्रियस्य एकं करमरुणत् इत्यर्थः / भैम्याः पृष्ठदेशशय्ययोर्मध्ये अन्तरालाभावात् जलः एकं हस्तं तत्र प्रवेश्य दमयन्तीमालिङ्गितुं न समर्थ इति भावः // 40 // कामोत्सवमें बलात्कारसे अङ्कपालिका देने (अकवारमें लेकर आलिङ्गन करने) के