________________ षोडशः सर्गः। 666 अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः / निपीय भृङ्गारकसङ्गि तच्च तैरवर्णि वारि प्रतिवारमीदृशम् / / 88 // ___ अकारीति / यत् वारि जलं, प्रभञ्जनात् वायोः, वायुसञ्चालनात् इत्यर्थः। 'श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः। नभस्वद्वातपवनपवमानप्रभञ्जनाः // ' इत्यमरः / नीहारनिभं हिमकल्पं,तद्वत् शीतलम् इत्यर्थः / अकारि कृतं, तथा अगुरोः कृष्णागुरुवृक्षस्य, सारदारुभिः अभ्यन्तरस्थितोत्कृष्टसुगन्धिकाष्ठः, धूपकाष्ठेरिति यावत्, अधूपि धूपितञ्च, वासितञ्च इत्यर्थः / भृङ्गारकसङ्गि छुद्रकनकालुकान्तर्गतं, स्वर्णमयजलपात्रविशेषस्थितमित्यर्थः / 'भृङ्गारः कनकालुका' इत्यमरः / तत् पूर्वोक्तं वारि, निपीय पीत्वा, प्रतिवारं प्रतिपानकालं, तैः पातृभिः, ईदृशं वक्ष्यमाणरूपम् , अवर्णि वर्णितम् // 88 // जिस पानीको वायुसे बर्फके समान ठण्ढा किया गया था और अगरुके सारभूत ( मध्यमागस्थ ) लकड़ीसे धूपित (धूप देकर सुगन्धित ) किया गया था; (बारातियोंने सवर्णादिके ) झारी ( जलपात्र-हथहर या गङ्गासागरमें ) रखे मये उस पानीको वहांपर ( भोजनशालामें, या राजा भीमके महलमें ) बार-बार अच्छी तरह पीकर ( अथवा-पीकर बारबार ) इस प्रकार (1689) वर्णन किया / 88 // त्वया विधातयदकारि चामृतं कृतश्च यज्जीवनमम्बु साधु तत् / वृथेदमारम्भि तु सर्वतोमुखं तथोचितः कत्तु मिदं-पिबस्तव // 86 // त्वयेति / विधातः ! हे स्रष्टः !, त्वया भवता, अम्बु जलं यत् अमृतम् अमृतनामकं तथा जीवनं जीवनसंज्ञकञ्च, यत् अकारि कृतं तत् उभयं कर्म साधु सम्यक, सार्थकमित्यर्थः, कृतं विहितम् , अम्बुनोऽमृततुल्यरसत्वात् जीवनाधायकत्वाच्च तादृशसंज्ञाद्वयं सार्थकमेवेति भावः / तु किन्तु, इदम् अम्बु, सर्वतः सर्वदितु मुखानि प्रवाहरूपवक्त्राणि यस्य तत् सर्वतोमुखं सर्वतोमुखमिति संज्ञाविशिष्टम इत्यर्थः / 'आपः स्त्री भूम्नि वारि सलिलं कमलं जलम् / कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् इत्यमरः। वृथैव निरर्थकमेव, आरम्भि अकारि, पेयस्य मुखवैयादिति भावः / अतः अस्य अम्बुनः, पिबतीति इदंपिबः जलपायी अस्मदादिः। 'पाघ्राध्माधेटदृशः शः' इति शप्रत्यः / तथा सर्वतः सर्वस्थाने मुखानि यस्य स सर्वतोमुखः कत्त विधातुम् इत्यर्थः, तव उचितः योग्यः; जलपायिनां बहुमुखसत्त्वे आतृप्ति जलपानं सम्भवति न वेकमुखेनेति तेषामेव सर्वतोमुखभाविताया औचित्यादिति भावः॥ 89 // हे ब्रह्मन् ! तुमने पानीको जो 'अमृत' तथा 'जीवन' बनाया अर्थात् 'अमृत' तथा 'जीवन' नाम रक्खा, (अमृतवत् मधुर एवं जीवनरक्षक होनेसे ) वह ठीक किया; किन्तु 'सर्वतोमुख' ( सब ओर मुखवाला ) यह नाम व्यर्थमें रक्खा, क्योंकि इस (पानी ) को पीनेवाले हम लोगोंको वैसा करना ('सर्वतोमुख' एक मुखके स्थानमें सब ओर मुख