________________ 666 नैषधमहाकाव्यम् / पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणा / पुनः करे कत्तु मना गलन्तिकां हसात् सखीनां सहसा न्यवर्त्तत / / 83 // पिपासुरिति / वारिणा जलेन, सुहितेन तृप्तेन इत्यर्थः। सौहित्यं तर्पणं तृप्तिः इत्यमरः / शेषार्थ षष्ठी 'पूरणगुण-' इत्यादिना समासनिषेधः। केनचित् , यूना इति शेषः / मुखं बालिकाया वदनं, निरीक्ष्य अवलोक्य, पिपासुः पातुम् इच्छुः, अस्मि भवामि, इति विबोधिता विज्ञापिता, बाला तरुणी, निगूढाभिप्रायपरिज्ञानमूढा काचिदप्रौढा इति भावः / पुनः गलन्तिकां कर्करी, जलदानपात्रमित्यर्थः 'कर्कर्यालु गलन्तिका' इत्यमरः / करे हस्ते, कत्तु मनाः धत्तुकामा सती 'पृषोदरादीनि' इत्यादौ 'तुंकाममनसोरपि' इति कारिकातोमकारलोपः। सखीनां सहचरीणां, हसात् हास्यात्, 'स्वनहसोश्च' इति विकल्पादपप्रत्ययः। सहसा सपदि, न्यवर्तत निवृत्ता जलेन तृप्तस्याप्यस्य कर्मविशेषमनुपादाय केवलं 'पिपासुरस्मि' इति कथनेन बालिकाया अस्या अधरमेव पिपासुरयमिति तद्वाक्यतात्पर्यमवधार्य सखीनां हास्याद् बाला तदाशयं परिज्ञाय जलपरिवेषणव्यापारान्निवृत्तेति भावः // 83 / / पानीसे तृप्त हुए ( किसी युवक ) के 'मैं प्यासा हूं' ऐसा मुख देखकर कहनेपर हाथमें झारी ( जलपात्र ) को उठानेकी इच्छा करती हुई बाला सखियों के हंसनेसे एकाएक रुक गई / [ पानी पीकर तृप्त युवकके उस मुग्धाके मुखको देखकर 'मैं तुम्हारे अधरका प्यासा हूँ' इस आशयसे 'मैं प्यासा हूँ' ऐसा कहनेपर उसके गूढाभिप्रायको नहीं समझती हुई जल पिलानेवाली मुग्धा ( अपरिपक्क बुद्धिवाली स्त्री) ने पानी पिलानेके लिए पुनः हाथमें झारी ( पानीके बर्तन ) को लेना चाहा, इतने में उस युवकके परिहासपूर्ण गूढाभिप्रायको समझनेवाली प्रौढा सखियोंने हंस दिया और वह मुग्धा भी उनका हंसना देखक र सोकर जागे हुए के समान उस युवकके परिहासपूर्ण गूढाभिप्रायको समझकर झट रुक गयी ] // 83 / / युवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बनम् / चकार तन्नीविनिवेशितं कर बभूव तच्च स्फुटकण्टकोत्करम् / / 84 / / युवेति / युवा कश्चित्तरुणः, अमत्रगं पात्रगतम् 'सर्वमावपनं भाण्डं पात्रामत्रञ्च भाजनम्' इत्यमरः / घृतं समादित्सुः ग्रहीतुमिच्छुः सन् ददातेः सन्नन्तादुप्रत्ययः, 'सनि मीमा-' इत्यादिना इसादेशे अभ्यासलोपः। तत्र घृते, एणदृशः मृगाच्याः, परिवेषिकायाः इति शेषः / अनुबिम्बनं प्रतिबिम्ब, विलोक्य दृष्ट्वा, करं स्वकीयहस्तं, तस्य स्त्रीप्रतिबिम्बस्य, नीव्यां कटिवस्त्रबन्धने, निवेशितं स्थापितं, चकार कृतवान् , तत् प्रतिबिम्बश्च, स्फुटं व्यक्तं, कण्टकोस्करं पुलकप्रकरं यस्य तादृशं, बभूव सञ्जातम् स्वीयनीविग्रन्थिमोचनाभिप्रायप्रकटनार्थं स्वप्रतिबिम्बनीविसविधे तदीयकरार्पण .. 1. 'निवेशिनं' इति पाठान्तरम् / ..... ..