________________ पञ्चदशः सर्गः। 867 तिरोहितेत्यर्थः छादयतेः कर्मणि लुङ, ते वेणवः, प्रणीतगीतः प्रयुक्तगानैः, गायकैरित्यर्थः / गीतनिःस्वनैरिति यावत् , न, आच्छादिषत इति विभक्तिविपरिणामे. नान्वयः, एवमुत्तरत्रापि योज्यम् / तेऽपि च गायकवनयश्च, झर्झरैः वाद्यविशेषः, तद्ध्वनिभिरित्यर्थः / न, आच्छादिषत, ते झर्झरध्वनयः, हुदुक्केन वाद्यविशेषेण, न, आच्छादिषत, सोऽपि हुडुक्कोऽपि, ढक्कया वाद्यविशेषेण, न, आच्छादि, साऽपि ढक्काऽपि, मर्दः मृदङ्गध्वनिभिः, न, आच्छादि, तेऽपि मर्दलानां ध्वनयोऽपि, ढक्कया न, आच्छादिषत, वादकजनानां तथा वादननैपुण्यं, यथा विपञ्च्यादिध्वनयः प्रत्येकमसंश्लिष्टं श्रुता इति भावः / / 17 // ___ वीणा ( की ध्वनि ) वंशी ( की ध्वनि ) से नहीं दबी, ( इसी प्रकार ) वंशी ( गायकोंके ) गानोंसे, गायकों के गाने झांझोंसे, झांझ हुडुकसे, हुडुक नगाड़ेसे, नगाड़ा मृदङ्ग ( या मशक बाजे ) से और वे ( मृदङ्ग या मशक बाजे ) नगाड़ेसे नहीं दबे। [ उक्त सबोंकी ध्वनि बजानेवालोंकी निपुणताके कारण एक दूसरेसे नहीं दबती थी, अपि तु पृथक्-पृथक् स्पष्ट सुनायी पड़ती थी ] // 17 // विचित्रवादित्रनिनादमूञ्छितः सुदूरचारी जनतामुखारवः / ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः // 18 // विचित्रेति / विचित्राणि नानाविधानि, वादित्राणि ततादिवाद्यानि 'चतुर्विधमिदं वाद्यं वादिबातोद्यनामकम्' इत्यमरः, तेषां निनादैः ध्वनिभिः, मूच्छितः प्रवृद्धः सुदूरचारी अतिदूरव्यापी, जनतानां जनसमूहानां, मुखेषु आरवः शब्दः, लोकालापकोलाहलः इत्यर्थः। पयोधीनां पूरेषु लहरीषु, प्रतिनादेन प्रतिध्वनिना, मेदुरः मेदस्वी, प्रवृद्धः सन् इत्यर्थः / 'भञ्जभासमिदो घुरच्' इति मिदधातोपुरच्प्रत्ययः / दिगन्तदन्तिनां दिग्गजानां कर्णेषु न ममौ न माति स्मेति अतिशयोक्तिः। वधूमङ्गलस्नानार्थं महान्तं मङ्गलतूर्यघोषणमकार्षुरित्यर्थः / उच्चैर्वादितविविधवाद्यनिनादेन सह मिश्रितः तत्रत्यजनानां महान् कलकलः कर्णवधिरकारी अभूदिति भावः // 18 // अनेक प्रकार के बाजाओंकी ध्वमिसे बढ़ा तथा बहुत दूर तक गया हुआ जन-समूहके मुखका शब्द अर्थात् कोलाहल समुद्रतरङ्गों में प्रतिध्वनित होकर बढ़ता हुआ दिग्गजों के कानों में नहीं आ सका अर्थात् अत्यधिक होनेसे उन दिग्गजों के कानोंसे बाहर निकल आया। [ जन-समूहका कोलाहल दिगन्ततक फैल गया ] // 18 // उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे / यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् / / 19 / / उदस्यति / अथ मङ्गलतूर्यघोषणानन्तरं, पुसन्ध्रिवर्गः पुरवासिनीसङ्घः, शातकुम्भजाः सौवर्णीः, कुम्भीः पूर्णकलशीः, उदस्य उन्नमय्य, अथ तदनन्तरं, मङ्गलं 1. यथाविधानं नरनाथनन्दिनीम्' इति पाठान्तरम् /