________________ 934 नैषधमहाकाव्यम् / के पातिव्रत्य को ग्रहण करती अर्थात् कहती थीं, मिली हुई उन ( चारों ) गाथाओंको तब ( इन्द्रादि चारों देवों के प्रसन्न होनेपर ) इस ( दमयन्ती ) ने मिलित दिशाओं ( दश दिशाओं) के समान केवल नलके वशीभूत समझा। [ पहले उक्त चारों गाथाओं में से एक-एक गाथाओं द्वारा समानार्थक होनेसे नलके बोधके साथ-साथ क्रमशः इन्द्रादि चारों देवोंके पूर्व, अग्निकोण, दक्षिण तथा पश्चिम दिशाओंके पति होनेका बोध होता था; किन्तु इन्द्रादिके प्रसन्न हो जानेपर उन चारो गाथाओं को दमयन्तीने चक्रवर्ती नलको सब दिशाओंका स्वामी होनेसे नलार्थक ही समझा ] // 10 // ( या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव / तामेव मेने मिलितां नलस्य सैषा विशेषाय तदा नलस्य // 1 // येति / 'किं ते–' (13 / 30) इत्यादिर्या गाथा पाशिनैव वरुणेनैव समा तुल्यार्था न बन्येनेन्द्रादिना, या च 'अत्याजि-' (13 / 27) इत्यादिर्गाथा अशनिपाणिनेन्द्रेणैव समा न स्वन्येन देवेन, या च 'यच्चण्डिमा-'(१३।२९) इत्यादिर्गाथा यमेनैव समा न त्वन्येन, या च 'येनामुना-' (12 / 28) इत्यादिरग्निनैव तुल्या न त्वन्येन, नलस्य सम्बन्धिनों मिलितां समुदितां चतुष्टयरूपां तां गाथामेव तदा देवप्रसादानन्तरं सैषा भैमी नलस्य विशेषायेन्द्रादिभ्यो भेदज्ञानाय मेने / इन्द्रादीनामेकैकस्यामेव गाथायां वर्तमानत्वात् , नलस्य तु सर्वत्रानुगतत्वात् 'अत्याजि-' इत्यादिगाथाचतुष्टय (13 / 24-30) प्रतिपाद्यो यः, स एव नल इति तामेव गाथां मिलितां नलस्य भेदज्ञापिकामज्ञासीदिति भावः। या नलस्य गाथेति वा सम्बन्धः / या पाशिनैवेन्द्रेणैव, यमेनैवाग्निनैव समा गाथा नलस्य सम्बन्धिनी मिलितां तामेवानलस्य नलव्यतिरिक्तस्येन्द्रादेर्भदाय मेने। मिलितया तया कृत्वा नले निश्चिते सति नान्तरीयकत्वात्तदितरे देवा अपि तयैव निश्चिता इति भाव इति वा मिलितां तामेव गाथां नलस्य विशेषाय तथा नलेतरस्येन्द्रादेर्भदाय मेने इति वा व्याख्बेयम् / या पाशिनैवेत्यादेवकारान् परस्परसमुच्चयार्थानप्यङ्गीकृत्य या नलसम्बन्धिनी गाथा पाशिनाऽपि, इन्द्रेणापि, यमेनापि, अग्निनापि तुल्यार्थाऽभूत् तां 'देवः पतिः-' (13 / 33) इत्यादि मिलितां पञ्चाएँ गाथां देवप्रसादादनन्तरं नलस्यैव विशेषाय मेने / देवैः प्रसन्नैः स्वीयस्वीयाकारेषु श्तेषु पञ्चार्थत्वेन प्रतिभातामपोदानामेकस्य नलस्यैव प्रतिपादिकामज्ञासीदिति भाव इति / 'देवः पतिः- (13 / 33) इतीयमेव गाथा विषय इति ज्ञेयम् / अवधारणार्थेष्वप्येवकारेष्वियमेव गाथा विषय इति व्याख्येयम् / अयं श्लोकः शेषं नलं-' (14 / 9) 'एकैकवृत्तेः-' (14 / 10) इति श्लोकाभ्यां समानार्थः / अनलस्येति प्रत्येकपर्यवसायित्वादेकवचनम् // 1 // ). 1. अयं श्लोको म० म० मल्लिनाथेन न व्याख्यात इत्यतो मया नारायणभट्टः कृतया 'प्रकाश' व्याख्यया सहेहोपन्यस्त इत्यवधेयम् / 2. अत्र म०म० शिवदत्तशर्माणः-' केषुचिदादशः शेषं नलं-' (149)