________________ 680 नैषधमहाकाव्यम् / सन् कन्दर्पस्य मूर्द्धरुहाणां केशानां, मण्डनं यच्चम्पकस्रग्दाम चम्पकपुष्पमाल्यं, तदिव यत् स्वदङ्गं तस्य रुच्या कान्त्या, कञ्चकितः आवृतः, सम्मीलित इत्यर्थः, पयोदपतेचम्पकस्रग्दामसदृशस्य त्वदङ्गस्य रुचिरिव रुचिर्यस्याः तादृशया सुमेरुशिखयेत्यर्थः, कन्चुकितः सम्मिश्रितः, चकास्तु प्रकाशस्तु, दीप्यतामित्यर्थः, श्यामवर्णः नवीनो मेघो यथा सौवर्ण सुमेरुगिरिं प्राप्य शोभते तथा श्यामवर्णः अयं नृपतिः सुवर्णचम्पकगौरी त्वां स्वीकृत्य शोभितो भविष्यति इति भावः // 18 // - कमल ( भाग्यसूचक रेखारूप चिह्न-विशेष ) से युक्त हाथवाला, श्यामवर्ण युवक और तुमसे आलिङ्गित यह ( गौडनरेश ) कामदेवके मस्तकस्थ केशोंके भूषणभूत चम्पकमालाकी लड़ो ( या चम्पकमाला) के समान तुम्हारे शरीरकी रुचि ( गौर वर्ण ) से कन्चुकित (व्याप्त ) शरीरवाला होकर वैसा शोभित होवे जैसा जलयुक्त होनेवाला (जलपूर्ण होनेसे), नीलवर्ण, सुमेरु-शिखरसे आलिङ्गित नवीन मेघ अतिशय गौर वर्ण विद्युत्कान्तिसे आलिङ्गित ' होकर शोभता है / / 98 // एतेन सम्मुखमिलत्करिकुम्भमुक्ताः कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः। एतद्भुजोष्मभशनिःसहया विकीर्णाः प्रस्वेदविन्दव इवारिनरेन्द्र लक्ष्म्या // एतेनेति / एतेन राज्ञा, कौक्षेयकाभिहतिभिः असिघातैः, 'कुल-कुक्षि ग्रीवाभ्यः श्वाऽस्यलङ्कारेषु' इति अभिरूपेऽर्थे कुक्षिशब्दात् ढकञ् प्रत्ययः। विमुक्काः कुम्भ. स्थलेभ्यः भूमौ विक्षिप्ताः, सम्मुखं यथा तथा मिलतां सङ्गच्छमानानां, युद्धार्थ सम्मुखागतानामित्यर्थः, करिणां गजानां, कुम्भेषु मुक्ताः कुम्भस्थलस्थमौक्तिकानि, एतस्य राज्ञः, भुजोष्मणो भुजप्रतापस्य, भृशं निः न, 'निर्निश्चयनिषेधयोः' इति वररुचिः। सहते इति निःसहा असहा, पचायच। तया सोढुमशक्यया, भुजोष्मसन्तप्तयेत्यर्थः, अरिनरेन्द्राणां लक्ष्म्या विकीर्णा विसृष्टाः, प्रस्वेदबिन्दव इव विबभुरित्युत्प्रेक्षा // 99 // इस (गौडनरेश) द्वारा किये गये तलवार के आघातों के द्वारा सामने आनेवाले हाथियों के कुम्भस्थलों से निकली हुई गजमुक्ताएं, इस ( गौडनरेश ) के बाहु-प्रतापको नहीं सहनेवाला शत्रुराजाकी राजलक्ष्मीसे छोड़े गये स्वेदबिन्दुके समान शोभती हैं। [उष्ण प्रतापसे स्वेदका होना उचित हो है / यह राजा युद्ध में हाथियों को मारनेवाला बहुत शूरवीर है, अतः इसे वरण करो ] // 99 // आश्चर्यमस्य ककुभामवधीनवापदाजानुगाद्भुजयुगादुदितः प्रतापः। व्यापत् सदाशयविसारितसप्ततन्तु जन्मा चतुर्दश जगन्ति यशःपटश्च / / ____ आश्चर्यमिति / अस्य राज्ञः, आ-जानु जानुपर्यन्तं गच्छतीति तस्मात् आ जानु. गात् जानुमात्र लम्बिनः इत्यर्थः, अत्यल्पदूरप्रसारिणोऽपीति भावः। भुजयुगात् उदितः उत्थितः, प्रतापः ककुभाम् अवधीन् दिगन्तान् , अवापत् प्राप, एतत् आश्चर्य, किश