SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 646 नैषधमहाकाव्यम् / भूषल्लिकिश्चननिकुञ्चितमिङ्गितं सा लिङ्गं चकार तदनादरणस्य विज्ञा। राशोऽपि तस्य तदलाभजतापवह्नश्चिह्नीबभूव मलिनच्छविभूमधूमः / / भूवल्लीति / विशेषेण जानातीति विज्ञा अभिज्ञा, 'इगुपधज्ञाप्रीकिरः का', सा दमयन्ती, भ्रवल्ल्याः भ्रलतायाः, किञ्चन किञ्चित, निकुञ्चितं सङ्कोचः, किश्चनेति किश्चिदर्थेऽव्ययं, तस्य विशेषणसमासः, तदेवेङ्गितं, चेष्टितं, तस्मिन् सवने, अनादर. णस्य लिङ्गं चकार भ्रनिकोचनेनैव तदनादरंसूचितवतीत्यर्थः, तस्य राज्ञोऽपि, मलिनच्छविभूमा वैवर्ण्यभूयस्त्वं, स एव धूमः, तस्याः दमयन्त्याः, अलाभेन जातस्तजः तस्य तापवः सन्तापाग्नेः, चिह्वीबभूव अनुमापको जात इत्यर्थः, अन्यत्र धूमं दृष्ट्वा वहिरनुमीयते, अत्र तु सवननृपे देहस्य श्यामवर्णरूपधूमं दृष्ट्वा दमयन्त्यप्राप्तिजन्य. तापवह्निरनुमीयते इति भावः। अत एवानुमानालङ्कारः 'साध्यसाधन निर्देशोऽनुमानम्' इति लक्षणात ; किन्तु इह धूमाग्न्यो रूपकशब्दात्मकयोरलङ्कारगर्भीकरणे विच्छित्तिविशेषाश्रयणात् तर्कानुमानाद्भेदः // 33 // ... विशेषज्ञा इस ( दमयन्ती ) ने भ्रलताके थोड़ा-सा संकोचरूप चेष्टाको (पाठा०भूलताकी चेष्टारूप आकार-रचनाको, अथवा-भ्र लताकी चेष्टाको और आकृतिभङ्गो अर्था। अङ्गुलि आदि अङ्गोंके चटकाने = मरोड़नेको उस ('सवन' राजा) के अनादर अर्थात् स्वीकार नहीं करनेका चिह्न बनाया और उस राजाका (मुखकी) मलिन कान्तिकी अधिकतारूपी धूम उस ( दमयन्ती) के नहीं पानेसे उत्पन्न सन्तापाग्नि(कामाग्नि) का चिह्न हुआ। (दमयन्तीने भ्र को थोड़ा सङ्कुचित कर उसको वरण करने में अनिच्छा प्रकट की तथा यह देख उस राजाका मुख मलिन पड़ना ही दमयन्तीको नहीं पानेसे उत्पन्न कामाग्निके अनुमान कराने. वाला चिह्न हो गया अर्थात् वहां उपस्थित जन-समूहने उस राजाके मुखको मलिन देखकर दमयन्तीको नहीं पानेसे उत्पन्न उस राजाके कामसन्तापका अनुमान कर लिया ] // 33 // राजान्तराभिमुखमिन्दुमुखीमथैनां जन्याजना हृदयवेदितयैव निन्युः। अन्यानपेक्षितविधौ न खलु प्रधानवाचां भवत्यवसरः सति भव्यभृत्ये // राजान्तरेति / अथ जन्याजनाः भृत्यजनाः, जन्या व्याख्याताः, हृदयवेदितया दमयन्त्याः चित्तज्ञतयैव, प्रेरणां विनैवेत्यर्थः, इन्दुमुखीम् एनां भैमीम, अन्यो राजा राजान्तरं, सुप्सुपेति समासः, तस्य अभिमुखं यथातथा निन्युः / स्वामिप्रेरणां विना कथं निन्युरत आह-अन्यानपेक्षितः अनपेक्षितान्या, स्वाम्यादेशनिरपेक्ष इत्यर्थः, बहुव्रीहौ 'सर्वनामसङ्ख्ययोरुपसङ्ख्यानम्' इति अन्यशब्दस्य पूर्वनिपातः, विधिः कार्यस्य अनुष्ठानं यस्य तस्मिन् स्वतः समर्थे, भव्ये सुयोग्ये, 'भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु' इति मेदिनी, भृत्ये कर्मकरे, सति प्रधानवाचा स्वाम्यादेशा. नाम्, अवसरो न भवति न अस्ति खलु इत्यर्थान्तरन्यासः // 34 // 1. '-वेल्लितमथाकृतिभनिमेषा' इति पाठान्तरम् / 2. 'जनीम्' इति पा० /
SR No.032781
Book TitleNaishadh Mahakavyam Purvarddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1976
Total Pages770
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy